पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

. [अ०१. सू.१.] ५४१ अष्टादशं काण्डम् । ७९ "तप्तनप्तनयनाश्च" इति तस्य तबादेशः । तपः पित्वाद् आ- ल्लोपाभावः। प्रयच्छत ॥ द्वितीया ॥ आच्या जानु दक्षिणतो निषधेदं नो हविरभि गृणन्तु विश्वे । मा हिंसिष्ट पितरः केन चिन्नो यद् व आगः पुरुषता कराम ॥ ५२ ॥ आऽअच्च । जानु । दक्षिणतः । निऽसद्य । इदम् । नः । हविः । अभि । गृणन्नु । विश्वे। मा। हिंसिष्ट । पितरः । केन । चित् । नः । यत् । वः। आगः। पुरुषता। कराम ॥ ५२॥ हे पितरः विश्वे सर्वे यूयं जानु आच्य जानुप्रदेशम् आकुच्य । अ- नेन भोजनोचितः संनिवेश उक्तो भवति । दक्षिणतः वेदेर्दक्षिणभागे उ- पसद्य उपविश्य इदम् अस्माभिर्दीयमानं पुरोवर्ति ह1विः हव्यम् अभि गृणीत अभिष्टुत समीचीनम् इति ब्रूत । अनेन हविःस्वीकारः अर्थाद् उक्तो भवति । न हि अनास्वाद्यमानस्य प्रशंसास्ति । कर्तव्यविषये अति- कमे संजातेपि शिक्षा न कार्येति प्रार्थयते । हे पितरः यूयं केन चिद् अल्पेन महता वा अपराधेन नः अस्मान् मा हिंसिष्ट हिंसां मा कु- रुत । अपराधस्य2 [संभावनाम् आह] । पुरुषता पुरुषत्वेन मनुष्यत्वेन हेतुना [वः युष्माकं] यद् आगः यम् अपराधं कराम कुर्मः । मनुष्या- णाम् अनवधानाद् अतिक्रमसंभावनास्त्येवेत्यर्थः ॥ तृतीया ॥ त्वष्टा दुहित्रे वहुतुं कृणोति तेनेदं विश्वं भुवनं समेति । यमस्य माता पर्युषमाना महो जाया विवस्वतो ननाश ॥ ५३ ॥ त्वष्टा । दुहित्रे । वहुतुम् । कृणोति । तेन । इदम् । विश्वम् । भुवनम् । सम् । एति। 1508, 28 हव्यं हविः for हविः हव्यं. 3S leaves after this a lacuna for som ten letters and has set for Tin TTET.