पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये गृहीत्वा अग्निम् आदीपयेत् । सूत्रितं हि । " काष्ठे गृहीत्वा उशन्त इत्यादीपयति । आदीप्योरेकं प्रति निदधाति" इति [कौ ११..] ॥ तत्रैव “अङ्गिरसो नः पितरो नवग्वाः" [५] इति सप्तभिर्ऋग्भिः प्रेतशरीरे अग्निप्रदः पुत्रः आज्यं जुहुयात् ॥ "इमं यम" [६०] इत्यूचा यमाय चतुर्थी व1पाहुतिं जुहुयात् ॥ "इत एतद् उदारुहन" [६१] इति चतसृभिः उत्थापनीयाभिर्ऋग्भिः प्रेतम् उत्थाप्य शकटे शयने वा निदध्यात् ॥ तत्र प्रथमा। बर्हिषदः पितर ऊत्यर्वागिमा वो हव्या चकृमा जुषध्वम् । त आ गतावसा शंतमेनाधा नः शं योररपो दधात ॥ ५१ ॥ बर्हिऽसदः । पितरः । ऊती । अर्वाक् । इमा। वः । हव्या । चकृम । जु- षध्वम् । ते। आ । गत । अवसा । शमडतमेन । अध। नः । शम् । योः। अरपः। दधात ॥५१॥ हे बर्हिषदः । बर्हिषि आस्तीर्णे दर्भे सीदन्तीति बर्हिषदः । न्त्यलोपश्छान्दसः । यज्ञम् आगताः हे पितरः यूयम् अती ऊ- त्या अस्मद्रक्षणेन निमितेन अर्वाक् अस्मदभिमुखम् । आगच्छतेति शे- षः । आगते सति किं लभ्यम् अस्तीत्यत्राह । इमा इमानि पुरत आ- सन्नानि हव्या हव्यानि हवींषि वः युष्मभ्यं चकृम अकाष्र्म । तानि यूयं जुषध्वम् सेवध्वम् । ते तादृशा यूयम् आ गत आगच्छत । मेर्लुङि मन्त्ये घस इति च्लेर्लुक्।'अनुदातोपदेश' इत्यादिना अनुनासिकलोपः । केन सहिताः । शंतमेन सुखतमेन अवसा र- क्षणेन सह । अस्माकं क्लेशलेशेनापि रहितां रक्षां कर्तुम् आगच्छतेत्य- र्थः । अर्थं आगत्य च [नः ] अस्मभ्यं शम् रोगाणां शमनं योः भया- नां यावनं च अरपः । रपो रिप्रम् इति पापनामनी भवतः इति निरुक्तम् [नि०४.२१.] । अपापं यथा भवति तथा दधा- IS omits the ann-vara in ageff.

"