पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०१. सू०१.] ५४० . सप्तदशं काण्डम् । वाद्याः सन्ति तेषां जेतारम् । यद्वा गावः उदकानि तेषां जेतारम् । तथा संधमजितम् सम्यग्धनस्य सुवर्णरजतमणिमुक्तादिलक्षणस्य जेतारम् । यद्या सहआदिजयः स्वोपासकार्थो द्रष्टव्यः । स्वभक्तेभ्यः सहःस्वर्गगोध- नानां लम्भकम इत्यर्थः । “अर्वाञ्चम् इन्द्रम् अमुतो हवामहे यो गो- जिद् धनजिद् अश्वजिद् य" [५.३.११] इत्यादिमन्त्रान्तरेषु इन्द्र- स्स गवादिजेतृत्वं प्रसिद्धम् । संधनाजितम् इति । सांहितिको दीर्घः। उक्तगुणविशिष्टस्पेन्द्रस्य आह्वाने प्रयोजनम् आह । आयु- ष्मान् भूयासम् इति । आह्वानोपलक्षितैस्त्रैकालिकोपस्थानादिलक्षणैः कर्म- भिः परितुष्टस्य इन्द्रशब्दवाच्यस्य भगवतः सूर्यस्य प्रसादाद् अहम आ- युष्मान शतसंवत्सरलक्षणेन आयुष्येण उपेतो भवेयम् । अत एव आयु- ष्मत्प्रार्थनालिङ्गाद् अस्यानुवाकस्य आयुरभिवृद्धयर्थं माणवकस्य त्रिकालम् आदित्योपस्थाने विनियोग उक्तः ॥ द्वितीया ॥ विषासहिं सहमानं सासहानं सहीयांसम् । सहमानं सहोजितं स्वर्जित गोजितं संधनाजितम्। ईड्य नाम ह्ल इन्द्र प्रियो देवानां भूयासम् ॥ २ ॥ विससहिम् । सह1मानम् । ससहानम् । सहीयांसम् । सहमानम् । सहःऽजितम् । स्वःऽजितम् । गोऽजितम् । संधनऽजितम्। ईड्यम् । नाम । ह्वे । इन्द्रम् । प्रियः । देवानाम् । भूयासम् ॥ २ ॥ पूर्ववद् व्याख्येयम् । आयुष्मान इत्यस्य स्थाने [प्रियो] देवानाम् इति विशेषः । इन्द्रस्य सर्वदेवाधिपतित्वात् तदात्मकस्य सूर्यस्यापि “एकैव वा महान आत्मा देवता । स सूर्य इत्याचक्षते सर्वभूतात्मा" इति प्रतिज्ञाय .. अनुक्रमणिकाकारेण स्वोक्तेर्थे "सूर्य आत्मा जगतस्तस्थुषश्च" इति [.

१. ११५.१] उदाह्रतत्वात् तथा "तविभूतयोन्या देवताः" इति प्र-

तिज्ञाय "तदप्येतद् ऋषिणोक्तम् । इन्द्रं मित्रं वरुणम् अग्निम् आहु- ___ "रयो दिव्यः स सुपर्णो गरुत्मान । एक सद् विप्रा बहुधा वदन्त्यग्निं