पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये "यमं मातरिश्वानम् आहुः" [१०१.१६४.४६] इति [स.अ.परि०२] प्रदर्शितावाच्च एकस्यैव भगवतः सूर्यस्य सर्वदेवतामयावात् तस्मिन एकस्मिन् प्रीते इतरेषां देवानां प्रियो भवतीत्यभिप्रायः । इतरथा येषां प्रियभावः प्रार्थनीयस्त एव पृथक्पृथग् उपास्याः स्युः । न च वाच्यम् एकेनैव प्रीतेनादित्येनालम् किम् इतरदेवानां प्रियभावप्रार्थनयेति । फलानभि- घाताय इतरेषां स्वाधीनीकरणस्यानि अपेक्षितत्वात् । यथा लोके प्रीतेपि राजनि तत्परतन्त्राणामपि अमात्यादीनां प्रीत्यर्थम् उपाधावनदर्शनात् ॥ तृतीया ॥ विषासहिं सहमानं सासहानं सहीयांसम्। सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम् । ईड्यं नाम व इन्द्रे प्रियः प्रजानां भूयासम् ॥ ३ ॥ विऽससहिम् । सहमानम् । ससहानम् । सहीयांसम् । सहमानम् । सहःऽजितम् । स्वःऽजितम् । गोऽजितम् । संधनऽ- जितम्। - ईड्यम् । नाम । ।ह्ने । इन्द्रम् । प्रियः । प्रऽजानाम् । भूयासम् ॥ ३ ॥ प्रकर्षेण जायन्त इति प्रजाः पुत्राद्या भृत्यादयश्च । तासां प्रियो भू- यासम् । ता यथा विधेयाः सत्यः स्वात्मानं पूजयन्ति तथाविधो भूया- सम् इति आशास्ते ॥ चतुर्थी ॥ विषासहिं सहमानं सासहानं सहीयांसम् । . 'सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम् । ईड्यं नाम ह्व इन्द्रं प्रियः पशूनां भूयासम् ॥ ४ ॥ विऽससहिम । सहमानम् । ससहानम् । सहीयांसम् । · सहमानम् । सह-ऽजितम् । स्वःऽजितम् । गोऽजितम् । संधनडजितम् । 1 एकस्यव.