पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०१. सू.१.] ५४० सप्तदशं काण्डम। • ईड्यम् । नाम । ह्वा । इन्द्रम् । प्रियः । पशूनाम् । भूयासम् ॥ ४ ॥ पशवो गोमहिष्यजाविकाद्याः करिनुरगोष्ट्रादयश्च । “चतुष्पादाः पश- वः" इति श्रुतेः [ऐ ब्रा० ५.१९] । सत्सु तेषु तेषां प्रियभावप्रार्थनौ- चित्यात् तल्लाभं तदानुकूल्यं चाशास्ते ॥ इत्थम् आयुष्याभावे कृत्स्नस्यापि लाभस्य वैयर्थ्यात् प्रथमम् आयुष्यम् आशास्स तसिद्धये देवतानुकूल्यमपि आशास्य पुत्राद्यभावे स्वात्मन एव अकार्त्स्न्यात् प्रजासमृद्धिम् आशास्य तदनन्तरं पशुलाभं प्रार्थ्य1 अथ तैः सर्वः संपन्नः स्वकमानेषु श्रेष्ठभावम् आशास्ते ॥ पञ्चमी॥ विषासहिं तहमानं सासहानं सहीयांसम् । . सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम् । ईड्यं नाम ह्व इन्द्र प्रियः समानानां भूयासम् ॥ ५॥ विऽससहिम् । सहमानम् । ससहानम् । सहीयांसम् । सहमानम् । सहाऽजितम् । स्वाऽजितम् । गोऽजितम्। संधनऽजितम् । ईज्यम् । नाम । हे । इन्द्रम् । मियः । समानानाम् ।भूयासम् ॥ ५॥ कुलजातिवयोधनविद्याकर्मादिभिः स्वसदृशाः समानाः । तेषां प्रियो भूयासम् । तेषामपि श्रेष्ठत्वेन उप2जीव्यो भूयासम् इत्यर्थः । सत्सु स्वसदृ- शेषु अन्येषु स्वरूप श्रैष्ठ्याभावाद् "अहं भूयासम् उत्तमः समानानाम्" [ तैत. सं०३. ५. ५.१] । “समानानाम् उत्तमश्लोको अस्तु" [तै.सं० ५. ७.४.३] इत्यादिश्रुतिषु तेषामपि श्रैष्ठ्यप्रार्थनादर्शनात् । इत्थम् आयु- ष्यादिसर्वकाममार्थनालिङ्गाद् अस्यानुवाकस्य च सलिलगणे पाठात् “स- लिलैः सर्वकामः" इत्यादिको गणप्रयुक्तो विनियोग उक्त इति द्रष्टव्यम् । अत एव प्रियः प्रजानां भूयासम् प्रियः समानानां भूयासम् इति लि- ङ्गाद् भास्करप्रीतिकरापूपदाने “अथ यः कामयेत सर्वेषां नृणाम् उत्तमः ___ P पशूनाम् ।. We with PICP. 1 प्रार्थयित्वा. 2 उपजीवको.