पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये स्याम” इति प्रक्रम्य "विषासहिम् इति अभिमन्त्र्य ब्राह्मणाय निवेद- येत्” इति अस्यानुवाकस्य विनियोग उक्त इति ज्ञातव्यम् ॥ षष्ठी। उदियुदिहि सूर्य वर्चसा माभ्युदिहि। द्विषंश्च मह्यं रध्यतु मा चाहं द्विषते रंध तवेद् विष्णो बहुधा वीर्याणि। त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥ ६॥ उत् । इहि । उत् । इहि । सूर्य । वर्चसा । मा। अभिऽउदिहि । द्विषन् । च । मह्यम् । रध्यतु । मा। च । अहम् । द्विषते । रधम् । तव। इत् । विष्णो इति । बहुधा । वीर्याणि । त्वम् । नः । पृणीहि । पशुभिः। विश्वऽरूपैः। सुऽधायाम् । मा। धेहि । परमे। विऽओमन् ॥ ६ ॥ सरति गच्छति संततम इति वा [ सुवति ] प्रेरयति रवोदयेन सर्वं प्राणिजातं स्वसेवव्यापारे इति वा सूर्यः । सर्तेः सुवतेर्वा क्यपि "राजसूयसूर्य" इत्यादिना निपातितः । तस्य संबोधनम् ।। हे सूर्य त्वम उदिहि उदिहि । वीप्सया उदयविषया त्वरा द्योत्यते । स्वय- मेव उदेष्यतः सूर्यस्य उदयविषयप्रार्थनं मन्देहाद्यसुरकृतोदयप्रतिबन्धम् अन्तरेण उदयाशंसनार्थम् । तथा च तैत्तिरीयश्रुतिः सूर्यस्य राक्षसकृतम् उदयप्रतिबन्धं तत्परिहारं च दर्शयति । “तस्माद् उतिष्ठन्तं हवा तानि "रक्षांस्यादित्यं योधयन्ति यावद् अस्तम् अन्वगात् । तानि हवा एता- "नि रक्षांसि गायत्रियाभिमन्त्रितेनाम्भसा शाम्यन्ति । तदु हवा एते ब्र- "ह्मवादिनः पूर्वाभिमुखाः संध्यायां गायत्र्याभिमन्तिता अप ऊर्घ्वं विक्षि- "पन्ति । ता एता आपो वज्रीभूत्वा तानि रक्षांसि मन्देहारुणे डीपे प्रक्षि- "पन्ति" इति [तै. आ०२.२. १.] । उदिह्यैव तव राक्षसकृत उदयप्र- तिबन्धो मा भूद् इत्यभिप्रायः । उदयं विशिनष्ठि । वर्चसा सर्वस्य आ- So we with A B BODRkRS V Cr De, and so throughout this Kanda. See Rw. In this Kanda E is wanting in the first seven verses and commences from मा त्वा दभन्. ३P पशूभिः ।