पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

. [अ०१. सू०१.] ५४० सप्तदशं काण्डम् । वर्जकेन तेजसा सह मा मां प्रति अभ्युदिहि । अनेन नीहारादितिरोधा- नाभावः प्रार्थितः । अथ वा वर्चसा हेतुना मम वर्चोलाभाय अभ्युदि- हि । सूर्य उदिते सर्वस्यापि पदार्थस्य वर्चःमाप्तिः सुप्रसिद्धैव । यद्यपि सर्वं भूतजातं प्रति उदेति तथापि उपासकस्य स्वस्य अभिमतप्राप्तिलक्षण- प्रयोजनसद्भावात् माभ्युदिहि इति प्रार्थयते । श्रुतिश्च भवति । "तस्मात् सर्व एव मन्यते मां प्रत्युदगाद् इति" इति [तै सं०६.५.४.२] । उद- . यप्रार्थनाया: प्रयोजनम् आह द्विषश्चेत्यादिना । हे सूर्य अप्रतिबन्धेन उ- दितस्य तव अनुग्रहात् द्विषन् मयि द्वेषं कुर्वन शत्रुः । “द्वि. षोऽमिषे" इति शतृप्रत्ययः । मह्यं रध्यतु मम वशं प्राप्नोतु । मम पादाक्रान्तो भवतु । रथ हिंसासंराद्धयोः । दिवादित्वात् श्यनः । यथा मद्वेषी स्वाधीनो भविष्यति एवं स्वयमपि तदाधी- 'नः कदाचिदपि स्याम् इत्याशङ्क्य व्यतिरेकाभावम् आशास्ते मा चाहं द्विषते रधम् । अहं विदुपासकस्वात्प्रसादाद् द्विषते मयि द्वेषं कुर्वते शत्रवे रधम् वशो मा भूवम् । अयम् अर्थो मन्त्रान्तरेपि स्पष्टम् उक्तः । उदगाद् अयम् आदित्यो विश्वेन सहसा सह। द्विषन्तं मम रन्धयन् मो अहं द्विषतो रधम् । ब्रा ३.७.६.२३] इति । द्विषश्च मा चाहम् इति चकारौ परसरसमुच्चयार्थौ । सत्यपि भोग्ये शत्रुसद्भावे भोगासंभवात् तत्स्वाधीनीकरणलक्षणं फलम् आशा- स्य इदानीम ऐहिकामुष्मिकलोकसाधनलक्षणं फलम् आशास्ते तवेद् वि- ष्णो बहुधेत्यादिना । आदौ भोगप्रदानसामर्थ्यसद्भावं दर्शयति तवेद इ- ति । हे विष्णो व्याप्नोति स्वरश्मिभिः सर्वं ब्रह्माण्डान्तरालम् इति वि. ष्णुरादित्यः । अथ वा द्वादशादित्यमध्ये "दिवाकरो मित्रो विष्णुश्च" इति श्रुतौ स्मृतौ च विष्णोरपि परिगणनाद् विष्णुरादित्यः । तादृशवि- ष्णुशब्दाभिधेयादित्य भवेत् तवैव वीर्याणि बहुधा बहुप्रकाराणि नान्यस्य देवतान्तरस्य । यतस्त्वं विष्णुः अतस्तव वीर्याणि अनन्तानीत्यभिप्रायः । विष्णुत्वोपाधौ तु विष्णोर्नु कं वीर्याणि प्र वोचं यः पार्थिवानि विममे रजांसि ।