पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये यो अस्कभायद् उत्तरं सदस्य विचक्रमाणवेधोरुगायः। [ ऋ० १.१५४.१] इत्यादिमन्त्रश्रुतिषु पुराणेतिहासागमादिषु [च] प्र- सिद्धानि । साक्षात् सूर्यस्य भगवतो वीर्याण्यपि जगदन्धकारनिहरणस- कलपदार्थप्रकाशननिखिललौकिकवैदिककर्मनिवर्तनसमयवृष्टिमदानारोग्यकर- णमोक्षप्रदानादीनि लोकप्रसिद्धान्येव । यतस्तव सर्वमाण्युपकारकाणि ब- हुविधानि वीर्याणि सन्ति अतस्वं. नः अस्मान् विश्वरूपैः गोमहिष्यजा- विकरितुरगोष्ट्रादिलक्षणैः पशुभिः पृणीहि पूरय । ज्यादित्वात् न्ना। "प्वादीनां ह्स्वः" इति ह्रस्वावम् । तथा मा माम् एतदेहा- वसाने परमे निरतिशये व्योमन् व्योमनि विशेषेण अवतीति व्योम त- स्मिन् बन्धस्य विष्टपे स्थाने। यत्र ज्योतिरजस्रं यस्मिल्लोके स्वर्हितम्। तस्मिन् मां धेहि पवमानामृते लोके अक्षिते। इति [ऋ० ९. ११३.७] मन्त्रोक्तलक्षण इत्यर्थः । तथाविधे लोके ख- धा1याम् । अन्ननामैतत् । यत्सेवया क्षुत्तृष्णाशोकमोहजरामरणादयो न भ- वन्ति तथा2विधे अन्ने अमृते मा मां धेहि स्थापय । तद्भोगार्ह कुर्वि- त्यर्थः । उक्तलक्षणे स्थाने स्वधासद्भावो मन्त्रान्तरे । “स्वधा च यत्र तृप्तिश्च तत्र माम् अमृतं कृधि" इति [अ०९.११३.१०] । धे- हीति । दधातेर्लोटि "वसोरेशावभ्यासलोपश्च" इति एत्वाभ्यासलोपौ र। सप्तमी॥ उदिह्युदिहि सूर्य वर्चसा माभ्युदिहि । यांश्च पश्यामि यांश्च न तेषु मा सुमतिं कृषि तवेद् विष्णो बहुधा वीर्याणि। त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधाया मा धेहि परमे व्योमन ॥७॥ उत् । ईहि । उत् । इहि । सूर्य । वर्चसा । मा। अभिउदिहि । यान् । च । पश्यामि। यान् । च।न। तेषु। मा। सुऽमतिम्। कृधि । तव। इत् । विष्णो इति । बहुधा । वीर्याणि। १PPहि. We with JCP. 13 Sayana's text too is स्वधायाम. 25 तथाविधेशमृते.