पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०१. सू०१.] ५४० सप्तदशं काण्डम् । त्वम् । नः। पृणीहि । पशुऽभिः । विश्वरूपैः । सुडधायाम् । मा।धेहि । परमे। विऽओमन् ॥ ७॥ . . उदिह्युदिहीति मन्त्रभागः पूर्ववद् व्याख्येयः1 । यान् प्राणिनः पश्या- मि चक्षुषा विषयीकरोमि देशादिभिरव्यवहितान् यांश्च प्राणिनः देशा- दिव्यवधानवतो न पश्यामि तेषु द्विविधेषु प्राणिषु विषयभूतेषु मा मां सुमतिम शोभमबुद्धियुक्तं कृधि कुरु । तेषु द्रोहरहितचित्तं कुर्वित्य- र्थः। "बहुलं छन्दसि" इति विकरणस्य लुक् । "श्रुशृणुपृकृवृ- भ्यश्छन्दसि" इति हेर्धिरादेशः । तादृशी बुद्धिः स्वात्मशत्रुमि- त्रेषु समदर्शिन एव जायते । तथाविधा दृष्टिः परमेश्वरप्रीतये भवति । समत्वम् आराधनम् अच्युतस्यं ॥ सममतिरात्मसुहृद्विपक्षपक्षे । न हरति न च हन्ति किंचिद् उच्चैः। [वि.३.७.२०]॥ इति स्मरणात् । किं च अद्रोह एव पुरुषार्थसाधनेषु प्रथमतो निर्दिष्टः "अहिंसा सत्यम् अस्तेयम" [भा ११.१७.२०] इति । ईदृशीं बुद्धि मन्त्रान्तरे महर्षिर्विष्णुं प्रार्थयामास । “त्वं विष्णो सुमतिं विश्वजन्याम् अ- प्रयुताम् एवयावो मति दाः" इति [ऋ०७.१००.२] । हे विष्णो त- वेद् इत्यादि गतम् । 3यतस्तव वीर्याणि बहुधा अतो मां सुमतिं कुरु ॥ . अष्टमी ॥ मा वा दभनसलिले अम्वीनतर्ये पाशिन उपतिष्ठन्त्यत्र। हिवाशस्ति दिवमारुन एतां स नो मृड सुमतौ ते स्पाम तवेद् विष्णो बहुधा वीर्याणि । वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायो मा धेहि परमे व्यो मन् ॥॥ मा।पा। दुभन । सलिले । अप्सु । अनः । ये। पाशिनः । उपऽति- टन्ति । अत्र। हिवा । अशस्तिम् । दिवम् । आ । अरुक्षः । एताम् । सः । नः । मृड । 19 व्याख्येयम्. 2 See Bhagavata V. 10. 23. 35 यत अद for यतस्तव.