पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये सुऽमतौ। ते । स्याम । तव । इन् । विष्णो इति । बहुधा। वीर्याणि । त्वंम् । नः । पृणीहि । पशुभिः । विश्वरूपैः । सुडधायाम् । मा। धेहि । परमे । विऽओमन् ॥॥ सलिले सलिलम् अन्तरिक्षम् तस्मिन् अपस्वन्तः अन्तरिक्षस्यानाम् अ- पां मध्ये हे सूर्य त्वा त्वां मा दभन दम्भनं हिंसा मा कार्षुः प्रच्छन्न- चारिणो राक्षसाः। दन्भु दम्भे । माङि लुङि "दम्भेश्चेति वक्त- व्यम्" इति च्लेः अङ् । . अप्सु सूर्यस्य हिंसका1नां कः प्रसङ्ग इति तत्राह ये पाशिन इति । अत्र अप्सु ये पाशिनः पाशहस्ता गतिनिरो- धसाधनवन्त उपतिष्ठन्ति मायाविनो राक्षसाः । “उत्तिष्ठन्तं हवा तानि रक्षास्यादित्यं योधयन्ति यावद् अस्तम् अन्वगात्" [तै. आ.२.२.१] इत्यादिना गतिप्रतिबन्धकसद्भावः प्र2दर्शितः प्राक् ॥ इथं गतिमत्यूहाभा- वम आशास्य सुखेन द्याम् आरूढं दृष्ट्वा आह हित्वेति । हे सूर्य एताम् अशस्तिम् । अशस्तिर्नि3न्दा । पराख्यब्रह्मणः सगुणमूर्तिभूतस्य भगवतः सूर्यस्य राक्षसा गतिं प्रत्यबन्धन् किल इत्येवंरूपा निन्दां हित्वा तैरप्रतिब- द्धो भाषा दिवम् द्याम् अन्तरिक्षम् आरूक्षः आरूढवान् असि। "श- ल इंगुपधाद् अनिटः क्सः" इति. क्सप्रत्ययः । स तादृशस्यक्ताश- स्तिस्त्वं नः अस्मान् मृड सुखय । ते सुमतौ शोभनायाम् अनुग्रहबुद्यौ स्याम भवेम । देवताया अनुग्रहबुद्धौ सत्यां यद् अभीष्टं प्रार्थयते तत् सुलभं भवतीत्यभिप्रायेण आदौ सैव प्रार्थ्यते ॥ तवेद् इत्यादि पूर्ववत् ॥ नवमी॥ त्वं न इन्द्र महते सौभगायादब्धेभिः परि पाह्यक्तुभिस्तवेद् विष्णो बहु- .धा वीर्याणि । त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥९॥ त्वम् । नः । इन्द्र । महते । सौभगाय । अदब्धेभिः । परि । पाहि । अ- क्तुडभिः । तव । इत् । विष्णो इति । बहुधा । वीर्याणि। . 1' हिंससहानां ऋ for हिंसकानां क. 2 प्रतिदर्शितः. 3 निदि for निन्दा.