पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०१. सू०१.]५४. सप्तदशं काण्डम् । त्वम् । नः । पृणीहि । पशुभिः । विश्वऽरूपैः । सुडधायाम्। ।मा । धेहि। परमे । विऽओमन ॥ ९॥ हे इन्द्र परमेश्वर सूर्य वं नः अस्माकं महते निरतिशयाय सौभगाय शोभनो1 भगो यस्य स सुभगः सुभगस्य भावः सौभगं सौ2भगाय सौभाग्याय। ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः। · ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा। [वि०६. ५.७०] ॥ इत्युक्तलक्षणाख्यप्रभूतस्य ऐश्वर्यादेः सिद्धयर्थम् इत्यर्थः । तदर्थम् । अदब्धे- भिः अदब्धैः अहिंस्यैर्व्याधिसर्तस्पाग्नितस्करादिजनितहिंसारहितैः अक्तुभिः । रात्रिनामैतत् । रात्र्युपपलक्षितैर्बहुभिर्दिवसैनिमित्तभूतैः परि पाहि सर्वतो रक्ष । अथ वा प्रायेण रात्रावेव व्याधितस्करभूत3रक्षःपिशाचादिपीडासंभ- वाद् विशेषेण रात्रिषु रक्षा प्रार्थते ॥ तवेद् इत्यादि गतम् ॥ . दशमी ॥ त्वं न इन्द्रोतिभिः शिवाभिः शंतमो भव । आरोहंस्त्रिदिवं दिवो गृणानः सोमपीतये प्रियधामा स्वस्तये तवेद् वि- प्णो बहुधा वीर्याणि। त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१०॥(१) त्वम । नः । इन्द्र । ऊतिऽभिः । शिवाभिः । शम्ऽतमः । भव । आऽरोहन् । त्रिडदिवम् । दिवः । गृणानः । सोमऽपीतये। प्रियऽधामा। स्वस्तये । तव । इत् । विष्णो इति । बहुडधा । वीर्याणि । त्वम् । न । पृणीहि । पशुभिः । विश्वरूपैः । सुडधायाम् । मा। धेहि । परमे । विऽओमन् ॥ १० ॥ (१) हे इन्द्र नः अस्माकं शंतमो भव । शम् इति सुखनाम । सु- खतमो भव । सुखयितृतमो भवेत्यर्थः । न हि असुखस्य सुखयितृत्वम् १"भवं। We with PJ. 18 शोभनं. 28 साभूत for सौभगाय. 38 omits in भूतरक्षा.