पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये अस्ति । कै साधनैरित्युच्यते । शिवाभिः मङ्गलाभिः ऊतिभी रक्षाभिः । याभी रक्षाभी रक्षितः पुनःपुनर्जननमरणादिक्लेशभाङ् न भवति तादृ- श्यो रक्षाः शिवा इत्युच्यन्ते । किं कुर्वन् । दिवः अन्तरिक्षस्य संबन्धि- नं त्रिदिवम् । तिसृणां धावां समाहारस्त्रिदिवः । “तिस्त्रो द्यावो नि- हिता अन्तरस्मिन्" [ऋ०७.६७.५] “तिस्रो भूमीर्धारयन् त्रीरुत द्यून्" [ऋ.२.२७..] "त्रयो, वा इमे त्रिवृतो लोकाः" [ऐ. ब्रा.' २. १७] इत्यादिश्रुतिभ्यो धुलोकस्य त्रैविध्यम् । अथ वा भूलोकापेक्ष- या तृतीया द्यौर्द्युलोकत्रिदिवः । तम् आरोहन् । तथा सोमपीतये सो- मपानाय । सोमपानं तु सोमयागम् अन्तरेण न संभवति तं देवेभ्यो हुत्वा शेषभक्षणविधानात् अग्नौ हुतस्य सोमस्य पानाय वा अतो या- गादिकर्मसिद्धये गृणानः अस्माभिः स्तूयमानः । कर्मणि कर्तृम- त्ययः । आरोहणं किमर्थम् इति उच्यते । खस्तये जगतः क्षे- माय । उदयति सवितरि अन्धकारापगमेन सकलव्यवहारसिद्धैः सर्वप्रा- णिनां क्षेमं1 भवतीति सुप्रसिद्धम् । कीदृशस्वम् । प्रियधामा प्रियस्थानः । ध्युस्थाने प्रीतिमान इत्यर्थः । न हि सूर्यस्य इतरदेववद् यहच्छया स्था- नान्तरसंक्रमणम् अस्ति । अथ वा धाम तेजः । प्रियतेजा इत्यर्थः । न हि स्वतेजः स्वस्याप्रियम् अतः सह्यमेव । अथ वा यस्य धाम लो- कस्य प्रियं स प्रियधामा । एवं कुर्वन स्वस्तये भवेति शेषम् अध्याह्न- त्य वा योज्यम् । तवेत इत्यादि पूर्ववत् ॥ इति प्रथमं सूक्तम्। द्वितीये सूक्ते प्रथमा॥ त्वमिन्द्रासि विश्वजित सर्ववित् पुरुहूतस्वमिन्द्र । त्वमिन्द्रेमं सुहवं स्तोममेरयस्व स नो मृड सुमतौ ते स्याम तवेद् वि- ष्णो बहुधा वीर्याणि। त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधाया मा धेहि परमे व्योमन् ॥११॥ बम् । इन्द्र । असि । विश्वजित् । सर्वऽवित् । पुरुडहूतः । त्वम् । इन्द्र। 1 क्षेम.