पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ॰१. सू०१.] ५४० सादर्श काण्डम् । त्वम् । इन्द्र । इमम् । सुऽहवम् । स्तोमम् । आ । ईरयस्व । सः ।नः। मृड। सुडमतौ । ते । स्याम । तव । इत् । विष्णो इति । बहुऽधा। वीर्याणि । त्वम् । नः। पृणीहि । पशुभिः । विश्वरूपैः । सुडधायाम् । मा। धेहि । परमे । विऽओमन् ॥ ११ ॥ . हे इन्द्र परमैश्वर्यविशिष्ट सूर्य । इन्द्र एव वा संबोध्यते सूर्यमूर्त्यन्तर- भूतः । पुरुहूत इत्यसाधारणविशेषणात् । त्वं विश्वजित विश्वस्य जेता व- शीकर्ता अधिपतिरसीत्यर्थः । तथा सर्ववित् सर्वप्रेरकत्वात् सर्वात्मकत्वा- च्च । तथात्वं च "असावादित्यो ब्रह्म" [तै.आ०२.२.२] “स त्रेधा- त्मानं व्यकुरुत । अग्निं तृतीयं वायुं तृतीयम् आदित्यं तृतीयम्" [बृ. आ०१.२.३] इत्यादिश्रुतेः परमेश्वराद् अभिन्नावात सिद्धम् । तथा हे इन्द्र वं पुरुहूतोऽसि पुरुभिर्बहुभिर्यजमानैः स्वस्खयागसिद्धये आहूतोसि । यत एवंरूपमहिमासि अतो हे इन्द्र [त्वम्] इमम् इदानीं क्रियमाणप्र- कारं सुहवम् शोभनाह्वानसाधनं स्तोमम् स्तवम् आ सर्वतः ईरयस्व प्रेरय । स्तोमेन तुष्टः सन एवमेव स्तुहीति प्रेरयेत्यर्थः । अथ वा ईरय- तिरत्र1 प्रेरणापूर्वके स्वीकारे वर्तते प्रेर्य 2स्वीकुर्वित्यर्थः । स नो मृळेति पूर्ववद् याख्येयम् ॥ द्वितीया ॥ अदब्धो दिवि पृथिव्यामुतासि न ते आपुर्महिमानमन्तरिक्षे।। अदब्धेन ब्रह्मणा वावृधानः स त्वं न इन्द्र दिवि षच्छर्म यच्छ तवेद् वि- __ष्णो बहुधा वीर्याणि। त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधाया मा धेहि परमे व्योमिन् ॥१२॥ अदब्धः । दिवि । पृथिव्याम् । उत । असि । न । ते । आपुः । महिमा- नम् । अन्तरिक्षे । sayana's text as well as commentary omits altogether, and reads दिवि शर्म &c. All our Samhita and pada authorities give the word, though the metre abhors it. 18 ईरयति तत्र for ईरयतिरत्र, प्रेरयेस्यर्थः for प्रेर्य स्वीकृर्षित्यर्थः