पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये अदब्धेन । ब्रह्मणा । ववृधानः । सः । त्वम । नः । इन्द्र । दिवि । सन् । 'शर्म । यच्छ । तव । इत् । विष्णो इति । बहुधा । वीर्याणि । त्वम् । नः । पृणीहि । पशुभिः । विश्वरूपैः । सुऽधार्याम । माँ। धेहि । परमे । विऽओमन् ॥ १२॥ हे इन्द्र त्वं दिवि द्युलोके अदब्धः केनापि राक्षसादिना अहिंसितो- सि । उत अपि च पृथिव्याम भुवि भूचरैः कैश्चिदपि अदब्धः अ- हिंसितोसि । तथा अन्तरिक्षेपि ते तव महिमानं मापुः सोढुं शक्ता नाभवन् । अतिकठोरतेजस्यात् लोकत्रयेपि तव संतापलक्षणं महिमा- नम् आप्तुमपि अशक्ताः किल किमु वक्तव्यं तव हिंसां कर्तुम् अश- क्ता [इति] इत्यभिप्रायः । ईदृशो महिम्नः प्राप्तौ कारणम् आह अ- दब्धेनेति । यतस्त्वम् अदब्धेन अहिंस्येन अकुण्ठितसामर्थ्येन ब्रह्मणा म- न्त्रेण गायत्रीलक्षणेन वावृधानः भृशं वर्धमानः । हिंसकानां रक्षसां गा- यत्र्यभिमन्त्रितेनोदकेन निरस्तावेन संकोचाभावाद् इति भावः । निर- सनप्रकारः “तस्माद् उत्तिष्ठन्तं हवा तानि रक्षांसादित्यं योधयन्ति" [तै. आ० २. २,१] इत्यादिना प्रदर्शितः । यद्वा ब्रह्मणा "विषासहिं सहमानम्" इत्यादिकेन कृत्स्नेनानुवाकेन स्तुतिरूपेणेत्यर्थः । “भुवस्वम् इन्द्र ब्रह्मणा महान" [ऋ० १०.५०.४] "एतेनाग्ने ब्रह्मणा वावृ- धस्व" [ऋ०१.३१.१०] इत्यादिश्रुतेर्देवताया ब्रह्मणा महत्त्वप्राप्तिरभि- वृद्धिश्च प्रसिद्धे । अथवा ब्रह्मणा परिवृढेन कर्मणा उपस्थानादिरूपेण वावृधानः । यतस्त्वं ब्रह्मणा वर्धसे अतस्वं सर्वत्र अदब्धः अन्यैरप्राप्त- माहात्म्यश्च भवसीत्यर्थः । स तादृशस्वम् हे इन्द्र नः अस्माकं दि- वि धुलोके शर्म सुखं यच्छ देहि । स्वधायां मा धेहि परमे व्योम- न्निति युक्तम् । तवेद् इत्यादि पूर्ववत् ॥ तृतीया ॥ या त इन्द्र तनूरप्सु या पृथिव्यां यान्तरग्नौ या त इन्द्र पर्वमाने स्व- र्विदिं।