पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

. [अ०१. सू०१.] ५४० सप्तदशं काण्डम् । ययेन्द्र तन्वा3न्तरिक्षं व्यापिथ तयांं न इन्द्र तन्वा शर्म यच्छ तवेद् वि. ष्णो बहुधा वीर्याणि। त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१३॥ या। ते । इन्द्र । तनूः । अपऽसु । या । पृथिव्याम । या । अन्तः । अनौ । या। । इन्द्र । पर्वमाने । स्वःऽविदि। यया । इन्द्र । तन्वा । अन्तरिक्षम् । विऽआपिथं । तया । नः । इन्द्र । त- न्वा । शर्म । यच्छ । तव । इत् । विष्णो इति । बहुऽधा । वीर्याणि । त्वम् । नः । पृणीहि । पशुडभिः । विश्वरूपैः । सुडधायाम् । मा।धेहि । परमे । विऽओमन् ॥१३॥ .... इत्थं मण्डलाभिमानिनः सूर्यस्य माहात्म्यम् उपवर्ण्य बहुविधं स्वाभी- ष्ठमपि अर्थयित्वा इदानीं पञ्चसु महाभूतेषु सूर्यस्य या मूर्तयः सन्ति त- न्मुखादपि स्वाभीष्टम् अर्थयते । हे इन्द्र परमैश्वर्ययुक्त सूर्य प्रसिद्धेन्द्र वा या [ते] तव तनूः मूर्तिः अप्सु उदकेषु अस्ति तया तन्वा मूर्त्या अबधिष्ठितदेवतोपाधिनापि शर्म सुखम्1 अप्सु विद्यमानं तासारभूतामृतभै- षज्यादिजन्यं सुखं यच्छ देहि । अप्सु अमृतभैषज्यादिसद्भावो मन्त्रान्तरेषु श्रूयते । “अप्स्वन्तरमृतम् अप्सु भेषजम्" [ऋ० १.२३. १९] “यो वः शिवतमो रसः" [ऋ० १०.९.२] "अप्सु मे सोमो अब्रवीद् अन्तर्विश्वानि भेषजा" [ऋ० १०.९.६] इत्यादिना । तथा पृथिव्याम् हे इन्द्र या तव तनूरस्ति पृथिव्यभिमानिदेवतामूर्तिर्विद्यते तयापि तन्वा नः अस्माकं शर्म सुखं पृथिवीविकारभूतान्नादिसंभवं यच्छ । एवम् अ- न्तरग्नौ तेजसि या तव तनूः । “चत्वारि शृङ्गा त्रयो अस्य पादाः" [ऋ०४. ५७.३] इत्यायुक्तलक्षणा तया तन्वा मूर्त्यापि नः शर्म य- च्छ । दाहपाकप्रकाशादिजन्यं सुखं प्रयच्छेत्यर्थः । तथा स्वर्विदि स्वर्गस्य A B C D E F SOs अन्तरिक्षं व्यापिथ. We with KkHk v. २PJ Cr आ- पिथ ।. We with PK. 1 सुखेंद्रे for सुखम्.