पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथर्वदसंहिताभाष्ये सुखस्य वा लम्भके ज्ञातरि वा पवमाने। पवतिर्गतिकर्माः। स- र्वदा अनु1परतगते वायौ हे इन्द्र या [ते] तव त2नूः मूर्तिरस्ति तयापि नः शर्म यच्छ । बहिरनुकूलस्पर्शजन्यम् अन्तःप्राणादिवायूनां चिरकाल- संचारजन्यं च सुखं प्रयच्छेत्यर्थः । किं च हे इन्द्र यया तन्वा मूर्त्या अन्तरिक्षं व्यापिथ व्याप्तवान् असि तया अन्तरिक्षव्यापिन्या मूर्त्या शर्म सुखम् अन्तरिक्षजन्यं वृष्ट्यादिसाध्यं यच्छ । अनेन पञ्चभूतव्यतिरेकेण सु- खसाधनवस्वन्तराभावात सर्वविषयं सुखं प्रार्थितं भवति । तथा पञ्चम- हाभूतव्यतिरेकेण अन्यस्य कस्यचिदपि पदार्थान्तरस्याभावात् तेषु व्याप्यभि- धानेन इन्द्रशब्दाभिधेयस्य सूर्यस्य भगवतः सर्वात्मकत्वम् उक्तं भवति । अनेनैवाभिप्रायेण "सूर्य आत्मा जगतस्तस्थुषश्च" [.१.११५.१] इ. त्यादिका श्रुतिः सूर्यस्य सर्वात्मकताम आह ॥ तवेत् इत्यादि पूर्ववत् । चतुर्थी ॥ .. त्वामिन्द्र ब्रह्मणा वर्धय॑न्तः सत्रं नि षेदुऋषयो नाधमानास्तवेद् विष्णो ___ बहुधा वीर्याणि। त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१४॥ वाम् । इन्द्र । ब्रह्मणा । वर्धय॑न्तः । सत्रम् । नि । सेदुः । ऋषयः । नाध- __ मानाः । तव । इत् । विष्णो इति । बहुडधा । वीर्याणि। त्वम् । नः । पृणीहि । पशुडभिः । विश्वडरूपैः । सुडधायाम् । मा । धेहि । परमे । विऽओमन् ॥ १४ ॥ हे इन्द्र सूर्य त्वाम् ऋषयः पूर्वे अ3ङ्गिरःप्रभृतयो नाधमानाः अभिमतं फलं याचमानाः ब्रह्मणा मन्त्रेण स्तोत्रशस्त्रादिरूपेण अथ वा परिवृढेन सोमपश्चादिरूपेण हविषा वर्धयन्तः अभिवृद्धं कुर्वन्तः सन्तः सत्रं गवा- मयनादिरूपं [निषेदुः] निषण्णाः निष्पादयितुं नियमेन अवस्थिता आ. सन् । अन्वतिष्ठन्नित्यर्थः ॥ तवेत् इत्यादि पूर्ववत् ॥ १P इन्द्र।. We with PICP. _18 omits अनु°, and reads सर्वदापरतमते (sic). 28 तनरस्तिमूर्तिस्तया.38 पू. वैद्यांगिरः for पूर्वे अङ्गिरः