पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१९ [अ०१. सू०१.] ५४० सप्तदशं काण्डम् । पञ्चमी॥ त्वं तृतं त्वं पर्येष्युत्सं सहस्रधारं विदथं स्वर्विदं तवेद् विष्णो बहुधा वीर्याणि। त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१५॥ त्वम् । तृतम् । त्वम् । परि । एषि । उत्सम् । सहस्रऽधारम् । विदथम् । स्वःऽविदम् । तव । इत् । विष्णो इति । बहुडधा । वीर्याणि । त्वत् । नः । पृणीहि । पशुडभिः । विश्वडरूपैः । सुडधायाम् । मा । धेहि। परमे । विऽओमन् ॥१५॥ हे इन्द्र त्वं तृ1तम् विस्तीर्णम् अन्तरिक्षं पर्येषि व्याप्नोषि । अथ वा तृ2तम् आच्छन्नं मेघैरावृतम् उदकं पर्येषि । तत्रापि त्वम् उत्सम् उत्स्य- .न्दतीति उत्सः उदकनिष्यन्दस्तं पर्येषि । उत्सो विशेष्यते । सहस्रधारम् अपरिमिताभिर्धाराभिरुपेतम् [विदथम्] । विदथो यज्ञः । ओषधिवनस्प- त्यभिवृद्धिद्वारा यज्ञसाधनत्वाद् उत्सो विदथ इत्युच्यते । अथ वा विदर्थ ज्ञानम् “विदथा3नि प्रचोदयन्" इत्यादिदर्शनात् [ऋ० ३.२७.७] । सर्वेषां प्रज्ञापयितारम् इत्यर्थः । सत्यां वृष्टौ सर्वेषां पदार्थानाम् अभि- व्यक्तः । तथा स्वर्विदम् स्वर्गस्य सुखस्य वा लम्भयितारम् ॥ तवेत. इ. त्यादि पूर्ववत् ॥ षष्ठी ॥ त्वं रक्षसे प्रदिशश्चतस्रस्त्वं शोचिषा नभसी वि भासि। त्विमिमा विश्वा भुवनानु तिष्ठस ऋतस्य पन्थामन्वेषि विद्वांस्तवेद् वि. ष्णो बहुधा वीर्याणि। त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१६॥ त्वम् । रक्षो । मदिर्शः । चतस्रः । बम् । शोचिषा । नमसी इति । वि। भासि। _t So PPI CP. 1 त्रितं here and in its text.2 अतृतं. 3 विदधानि.