पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये त्वम् । इमा । विश्वा । भुव॑ना । अनु । तिष्ठसे । ऋतस्य । पन्थाम्1 । अनु। एषि । विद्वान् । तव । इत् । विष्णो इति । बहुधा । वीर्याणि । त्वम् । नः। पृणीहि । पशुडभिः। विश्वडरूपैः। सुडधायाम् । मा । धेहि । परमे। विऽओमन् ॥ १६ ॥ हे सूर्य त्वं प्रदिशः प्रकृष्टा दिशः प्रागाद्याश्चतस्रः रक्षसे रक्षसि पा- लयसि । विभजस इत्यर्थः । यत्रोदेति सा प्राची इत्येवं दिग्विभागकल्प- नाहेतुत्वात् । अथ वा दिक्षु अवस्थितानां प्राणिनां रक्षेव दिशां रक्षेत्य- भिप्रायेण एवम् उक्तम । तथा त्वं शोचिषा रोचिषा प्रकाशेन नभसी अन्तरिक्षं दिवं च अथ वा यावापृथिव्यौ वि भासि प्रकाशयसि । अ- सम् इदम् उच्यते । त्वम् इमा इमानि विश्वा विश्वानि भुवना भुव- नानि अनुलक्ष्य तिष्ठसे प्रकाशसे । समस्तानां लोकाना भूतानां वा ए- क एव प्रकाशसे । एवम् ऋतस्य यज्ञस्य उदकस्य वा पन्थाम् पन्था- नं मार्गम् अन्वेषि अनुक्रमेण व्याप्नोषि । कीदृशः सन् । विद्वान ऋत- स्य अवस्थितिं जानन् । न हि कश्चित् कंचित् पदार्थम् अजानन् तम् अन्वेतुम् अर्हति ॥ तवेत् इत्यादि पूर्ववत् ॥ सप्तमी॥ पञ्चभिः पराङ् तपस्येकयार्वाडशस्तिमेषि सुदिने बाधमानस्तवेद् वि- ___ष्णो बहुधा वीर्याणि । त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधाया मा धेहि परमे व्योमिन् ॥१७॥ पञ्चडभिः । पराङ् । तपसि । एकया । अर्वाङ् । अशस्तिम् । एषि। सुऽदि- ने। बाधमानः। तव । इत् । विष्णो इति । बहुडधा । वीर्याणि । त्वम् । नः । पृणीहि । पशुभिः । विश्वऽरूपैः। सुध्धायाम् । मा। हि । परमे । विऽओमन ॥ १७ ॥ हे सूर्य वं पञ्चभिः दीधितिभिर्मरीचिभिः पराङ् ऊर्ध्वमुखः सन् तपसि प्रकाशसे उपरितनान लोकान् । तथा एकया दीधित्या अर्वाङ् अधोमु- १P पाम् ।।