पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०१. सू.१.] ५४० समद काण्डम। __ २१ खः सन् तपसि । अन्तरिक्षस्यस्य सूर्यस्य उपरि प्रकाश्याना स्वर्महर्जनस्तपः- सत्याख्यानां लोकानां पञ्चसंख्याकत्वात् पञ्चभिरित्युक्तम् । तथा अन्तरिक्ष- स्पितस्य [सूर्यस्य ] अधः प्रकाश्यस्य भूलोकस्य एकत्वात् एकयैर्वाड् इत्यु- क्तम् । एवं कुर्वन् सुदिने शोभनदिवसे नीहारमेघाद्युपद्रवरहिते दिवसे निमित्तभूते सति नाधमानः तदर्थं याच्ययमानः सन् अशस्तिम एकयैवार्वाङ् तपसीत्येवंरूपां निन्दाम एषि प्राप्नोषि ॥ अथ वा पञ्चभिरंशैः पराइ त- पसि एकेनैवांशेन अर्वाङ् तपसि । चक्षुर्गम्यं तेजः एकदेश एव1 उपरितनं तेजः 1निरवधिकम् इत्येवं स्तुति प्राप्नोषीत्यर्थः ॥ तवेत् इत्यादि पूर्ववत् ॥ - अष्टमी ॥ त्वमिन्द्रस्त्वं महेन्द्रस्त्वं लोकस्त्वं प्रजापतिः।। तुभ्यं यज्ञो वि तायते तुभ्यं जुह्मति जुह्वतस्तवेद् विष्णो बहुधा वीर्याणि । त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधाया मा धेहि परमे व्योमन् ॥१८॥ त्वम् । इन्द्रः । त्वम् । महाऽइन्द्रः । त्वम् । लोकः । त्वम् । प्रजाऽपतिः । तुभ्य॑म् । यज्ञः । वि। तायते । तुभ्यम् । जुह्वति । जुह्वतः । तव । इत् । वि- ष्णो इति । बहुधा । वीर्याणि । त्वम । नः । पृणीहि । पशुडभिः । विश्वडरूपैः। सुडधायाम । मा।धेहि। परमे । विऽओमन् ॥ १ ॥ हे सूर्य त्वम् इन्द्रः स्वर्गाधिपतिः “सहस्राक्षो गोत्रभिद् वज्रबाहुः" [.तैै. सं.२.३.१४.४] इत्यादिमन्त्रोक्तस्वरूप इन्द्रस्त्वमेव । तथा महेन्द्रस्त्वमेव महत्वगुणविशिष्ट इन्द्रोपि त्वमेव । वस्तुतो देवतैक्येपि विशेषणभेदाद् दे- वताभेदम् इच्छन्ति तान्त्रिकाः । “यद् अग्नये पवमानाय * * * । यद् अग्नये पावकाय * * * । यद् अग्नये शुचये * * * ।" [तै. ब्रा. १.१.५.१०] अत्यत्र यथा अग्नेरेकत्वेपि पवमानादिगुणभेदेन भे- दः एवम् अत्रापि द्रष्टव्यम् । इन्द्रस्य महत्त्वगुणयोगः “इन्द्रो वै वृत्रं हत्वा महान अभवत्" [ऐ आ०१.१] इत्यादिश्रुतेर्वृत्रवधाद्यसाधारणप- 18 एकदेशमेष for एकदेश एष. 2s omits a in निरवधिकम्. 299724 THE RI. .... SION INSTI..... TURE Lioni.RY THISSIONAL ssm---- FRAISHNA HAR LIERY