पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२२ अथर्वसंहिताभाष्ये राक्रमजन्यः । तथा त्वमेव लोकः सुकृतिभिः प्राप्यो लोकः स्वर्गादिल- क्षणस्त्वमेव । अथ वा परब्रह्मस्वरूपत्वात् सर्वलोकात्मकस्त्वमेव । एवं प्र- जापतिः प्रजानां स्रष्टा देवस्त्वमेव । यत एवम् अतस्तुभ्यं तव प्रीतये य. ज्ञो ज्योतिष्टोमादिः वि तायते विस्तार्यते यजमानैः । तथा जुह्वतः होमं कुर्वन्तः सर्वेपि तुभ्यं त्वदर्थमेव जुह्वति होमं कुर्वन्ति । याज्यापुरोनुषा- क्यापुरःसरं हूयमाना यागाः तद्रहिता होमाः इति तयोर्विवेकः ॥ तवेत् इत्यादि पूर्ववत् ॥ नवमी ॥ असति सत् प्रतिष्ठितं सति भूतं प्रतिष्ठितम् । भूत ह भव्य आर्हितं भव्यं भूते प्रतिष्ठितं तवेद् विष्णो बहुधा वीर्याणि । त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायो मा धेहि परमे व्योमन् ॥१९॥ असति । सत् । प्रतिऽस्थितम । सति । भूतम् । प्रतिऽस्थितम् । भूतम् । ह । भव्य । आऽहितम् । भव्यम् । भूते । प्रतिऽस्थितम् । तव । इत् । विष्णो इति । बहुऽधा । वीर्याणि ।। त्वम् । नः । पृणीहि । पशुडभिः । विश्वऽरूपैः । सुडधायाम् । मा । धेहि । परमे । विऽओमन् ॥ १९॥ असति । अत्र असच्छब्देन नामरूपादिराहित्यात् असत्प्रायं निरस्त- समस्तोपाधिकं सन्मात्रं ब्रह्म अभिधीयते । यथा दृश्यपदार्था नामरूपा- दिघटितत्वेन सद्व्यवहारम् अर्हन्ति एवं नामरूपाद्यभावेन चक्षुराद्यविषय- त्वेन द्रष्टुम् अनर्हत्वाद् ब्रह्म असद् इत्युच्यते । सच्छब्देन च असतः प्रपञ्चस्य सत्त्वेनावभासकात्वात् स्व1यं च तद्रूपेण सत्त्वेनावभासात् अनृत- नीहारमायाद्यपरपर्यायम् अज्ञानम् अभिधीयते । यद्यपि वस्तुतः सच्छ- ब्देन ब्रह्म अभिधातव्यम् “सदेव सोम्येदम् अग्र आसीत" [छा.उ. ६.२.१] "सत्यं ज्ञानम् अनन्तं ब्रह्म" [तै आ०७.१] इत्यादिश्रुतेः १P भव्ये . We with #J CP. 1808.