पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

___२३ [अ°१. सू.१.] ५४० सप्तदशं काण्डम् । तथा असच्छब्देन 1अब्रह्म [अज्ञानम्] अभिधातव्यम् सद्विलक्षणत्वात् भ्रा- न्तिबाधयोर्विषयत्वाच्च "अतोन्यद् आर्तम्" इति [ बृ.आ°३.५.१] श्रुतेः तथापि प्रतीत्यनुसारेण एवम उक्तम् । तस्मिन्नसति ब्रह्मणि सत् अज्ञा- नं प्रतिष्ठितम् आश्रितम् अध्यस्तम् । यथा इदमंशे शुक्तौ रजतम् रच्ज्वां सर्पधारादि एवं ब्रह्मणि अज्ञानं प्रतिष्ठितम् । सति उक्तलक्षणे अज्ञा- ने चैतन्यामतिबिम्बवति अज्ञाने भूतम् भूतकालावच्छिन्नं पृथिव्यादिभूत- पञ्चकं सकलसृष्ट्युपादानभूतं प्रतिष्ठितम् तद् आश्रित्य वर्तते । तत उ- त्पद्यत इत्यर्थः । यद्यपि “आत्मन आकाशः संभूतः" [तै आ°४.१] इत्यादिश्रुतेर्ब्रह्मतो भूतानाम् उत्पत्तिर्न मायातः तथापि अविक्रियस्य केव- लस्य सन्मात्रस्य अकार्यत्वात् अकारणात्वात् मायात एव तेषाम् उत्पत्तिः । तदधिष्ठानत्वाद् ब्रह्मत उत्पत्त्यभिधानश्रुतिः । भ्रमाधिष्ठानतास्माभिः प्रकृतित्वम् उपेयते।। इति हि स्मरन्ति । अथ वा असच्छब्देन सांख्यशास्त्रप्रसिद्धम् अनुभूतो- द्भवाभिभवं गुणत्रयसाम्यावस्थालक्षणं प्रधानम् उच्यते । तस्य विकृति- रूपताऽभावात असच्छब्दव्यवहारः । तसिन्नसति सत् उद्भूतोद्भवाभिभ- वम् अन्तरुदितत्रिभेदं2 महत्तत्वं प्रतिष्ठितम् । महतत्वस्य प्रधानविकारत्वात् सच्छब्देन व्यवहारः । तस्मिन् सति महत्तत्वे भूतम् भूतपञ्चकं प्रतिष्ठि- तम् । तच्च भूतम् भूतपञ्चकं सर्वस्य कार्यप्रपञ्चस्य उपादानभूतं भव्ये कार्यजाते आहितम् अनुगतम् । तच्च भव्यम् कार्यजातं भूते स्वकारण- भूते भूतपञ्चके प्रतिष्ठितम् नियतं वर्तते । कारणव्यतिरेकेण पृथगवस्था- नाभावात् । एवमात्मनः3 प्रपञ्चावस्थानस्य परमेश्वरमहिमा4यत्तत्वात् तवेद् विष्णो बहुधा वीर्याणीत्युच्यते ॥ गतम् अन्यत् ॥ दशमी॥ शुकोसि भ्राजोसि। स यथा त्वं भ्राजता भ्राजोस्येवाहं भ्राजता भाज्यासम् ॥ २० ॥ (२) शुक्रः । असि । भ्राजः । असि । 18 omits अ. 28 त्रिनेदं. 8 एवमात्मना. 4S महिमायतत्वात्.