पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२४ अथर्वसंहिताभाष्ये सः । यथा । त्वम् । भ्राजता । भ्राजः । असि। एष। अहम् । भ्राजता। _भ्राज्यासम् ॥ २०॥ (२) हे सूर्य त्वं शुक्रोसि शुक्रः अतिविशदः खच्छः प्रकाशः तद्रूपस्त्वम् असि । यद्वा शुक्रशब्दोत्र धर्मिपरः । शुक्रगुणयुक्तोसि । आयन्तनिर्म- लस्वरूपोसीत्यर्थः । अनेन कलुषलेशेनापि असंस्पृष्टस्वरूपता उक्ता । त- था भ्राजोसि भ्राजते दीप्यत इति भ्राजः। पचायच्४। दी- प्तोसि सकललौकिकप्रकाशकेन तेजसा युक्त इत्यर्थः । अस्तु किं तत इत्यत आह स यथा त्वम इति । हे सूर्य स ताहशस्वं [यथा] भ्राज- ता सकललोकप्रकाशकेन तेजोमयेन रूपेण भ्राजोसि भ्राजनस्वभावो भव- सि। “विश्वभ्राड् भ्राजो महि सूर्यो दृशे" इति [ऋ.१.१०.१७०.३] मन्त्रान्तरम् । एव एवम् अहम् उक्तस्वरूपोपासकः भ्राजता दीन रूपे- ण शरीरकान्त्या भ्राज्यासम् दीप्तो भूयासम् । तेजोगुणकस्य सूर्यस्य उ. पासनया उपासकस्यापि तेजोगुणयुक्तत्वं युक्तमेव ॥ इति सप्तदशकाण्डे द्वितीयं सूक्तम् ॥ ___अथ तृतीयसूक्ते प्रथमा ॥ रुचिरसि रोचोसि। स यथा त्वं रुच्या रोचोडस्येवाहं पशुभिश्च ब्राह्मणवर्चसेन च रुचिषीय॥२१॥ रुचिः । असि । रोचः । असि। सः । यथा । त्वम् । रुच्या । रोचः । अ1सि । एव । अहम् । पशुभिः । च । ब्राह्मणडवर्चसेन । च । रुचिषीय ॥२१॥ हे सूर्य वं रुचिरसि रुचिर्दीप्तिस्तद्रुपस्त्वम् असि । यद्वा रुचिशब्देन रुचिमान अभिधीयते । प्रकृष्ठरुचिरसि । तथा रोचोसि रोचयति दी- पयतीति रोचः । तादृशस्त्वम् असि । अत्र रुचिरसीत्यनेन दीप्तिमत्त्- मात्रम् उक्तम् । रोचोसीत्यनेन तु सकललोकदीपकत्वम् इति विवेकः । इत्थं स्वापेक्षितगुणविशिष्टत्वेन स्तुत्वा स्वाभिमतम् आशास्ते स यथा १P असि ।. We with PICP.