पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२५ [अ॰१. सू.१.१५४० सप्तदशं काण्डम । त्वम इति । स तादृशस्त्वं रुच्या विश्वप्रकाशिकया दीप्त्या रोचोसि भव- सि रोचको भवसि । पचाद्यच् । एव एवं भवानिव अ- हमपि पशुभिश्च । चशब्दो वक्ष्यमाणब्रह्मवर्चसेन समुच्चयार्थः । पशवो गोमहिषाश्चादयः तैश्च ब्राह्मणवर्चसेन च । अत्र चशब्दः पशुभिः समु- च्चयार्थः । ब्राह्मणानाम उचितं श्रुताध्ययनतपआ1दिजन्यं तेजः ब्राह्मणवर्च- सम् । उभाभ्यां रुचिषीय दीनो भवेयम् । यथा ब्रह्मवर्चसलक्षणेन तेज- सा दीप्यते लोके एवं बहुभिः पश्वादिधनैरपि आढ्यः सन् दीप्यते इति पशूनां दीप्तिसाधनवाभिधानम् । लोके धनाढ्यः प्रकाशत इति प्रसिद्ध- मेव । अत्र "ब्रह्महस्तिभ्यां वर्चसः" इति विहितः समासान्तः अच् प्रत्ययो ब्राह्मणशब्दात् परस्यापि वर्चसो भवति ॥ अत्र ब्राह्मणव- र्चसेन रुचिषियेति ब्रह्मवर्चसमार्थनालिङ्गात् माणवकस्य ब्रह्मवर्चसापेक्षावाद् उपनयनकर्मणि माणवकस्स नाभिदेशं संस्पृश्य जपेत् । तस्मिन्नेव कर्मणि माणवकाभिमन्नणे च अस्यानुवाकस्य विनियोग उक्त इति मन्तव्यम् ॥ · द्वितीया ॥ उद्यते नम उदायते नम उदिताय नमः। विराजे नमः स्वराजे नमः सम्राजे नमः ॥ २२ ॥ उतऽयते । नमः । उतऽआयते । नमः । उतऽईताय । नमः । विडराजे । नमः । स्वडराजे । नमः । समऽराजे । नमः ॥ २२ ॥ हे सूर्य उद्यते उदयैकदेशं गच्छते तुभ्यं . नमः नमस्कारोस्तु । तथा उदायते ऊर्ध्वम ईषङ्गच्छते । अर्धोदितायेत्यर्थः । तादृशाय तस्मै नमः । एवम् उदिताय ऊर्ध्वं सम्यक् प्राप्नाय संपूर्णोदयाय नमः । अत्र उद्यते उदायत इत्युभयत्र उत्पूर्वात् उदाङपूर्वाच्च इण् गतौ इत्यस्माल्लटः श- त्रादेशे "इणो यण्" इति यण् आदेशः। अथ यथोक्तावस्थात्रय- निबन्धनास्तिस्रो मूर्तीः पृथक्पृथग् नमस्करोति विराजे नम इत्यादिना । उद्यते विराजे नमः विविधं राजत इति विराट् तस्मै एकदेशोदिताय विराडात्मकाय नमः । स्वराजे नमः स्वयं राजत इति स्वराट् स्वाधीन- 19 °सादि. for °आदि.