पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये प्रकाशाय उदायदवस्थाय अर्धोदिताय स्वराण्मूर्तये नमः । सम्राजे नमः सम्यक् अतिशयेन राजमानाय उदितावस्थाय नमः ॥ अथ वा अवस्था- नम् अन्तरेणैव विरादस्वराष्ट्रम्राजः परमेश्वरस्य सोपाधिकास्तिस्रो मूर्तयः । तासु विराड् नाम परमेश्वरस्य यत् सकललोकात्मकं स्थूलशरीरं तद- भिमानी पुरुषशब्दवाच्यो देवः । तथा स्मर्यते ।। भूतैर्यदा पञ्चभिरात्मसृष्टैः पुरं विराजं विरचय तस्मिन्1 । स्वांशेन विष्टः2 पुरुषाभिधानम् अवाप नारायण आदिदेवः ॥[भा०११.४.३] विराजम् असृजत् प्रभुः। इति च । स्वराड् नाम भूतपञ्चकसारात्मकं परमेश्वरस्य सर्वसमष्टिरूपं यत् सूक्ष्मशरीरं तदभिमानी “स ब्रह्मा । स शिवः । स हरिः । सोक्षरः प- रमः स्वराट" [तै आ० १०.११.२] इत्यादिश्रुत्युक्तो हिरण्यगर्भः । स- म्राड् नाम परमेश्वरः कारणशरीराभिमानी सकलभूतभौतिकप्रपञ्चस्रष्टा मा- योपाधिक ईश्वरः ॥ "ब्रह्म प्रपद्ये । ब्रह्मकोशं प्रपद्ये" [तै आ०२.१९. १] “य एषोन्तरादित्ये हिरण्मयः पुरुषो दृश्यते" [छा०१.६.६] "हि- रण्मये परे कोशे विरजं ब्रह्म निष्कलम् । तच्छुभ्रं ज्योतिषां ज्योतिः" [मु.२.२.९] इत्यादिश्रुतेः सूर्यमण्डलाभिमानिनो3 देवस्य परमेश्वरत्वाद् विराडादयः [सूर्यात्मकस्य देवस्य मूर्तय] एव । अतस्ताभ्यः पृथक्पृथग् नमस्करोति ॥ यद्वा विराटस्वराट्भ्राजः अग्निवाय्यादित्याख्याः परमेश्वरस्य तिम्रो मूर्तयः ताभ्यः पृथक्पृथग् नमस्कारं करोति ॥ · तृतीया ॥ अस्तंयते नमोस्तमेष्यते नमोस्तमिताय नमः । विराजे नमः खराजे नमः सम्राजे नमः ॥ २३॥ . अस्तमऽयते । नमः । अस्तमऽएष्यते । नमः । अस्तमऽइताय । नमः । विडराजे । नमः । स्वऽराजे । नमः । समडराजे । नमः ॥२३॥ अस्तंयते अस्तम् अस्ताचलं गच्छते । ईषदस्तमितायेत्यर्थः । एवम् अ- 18 तस्मात् and विष्णुः for तस्मिन् and विष्टः respectively. 23 परमेश्वरस्य. 38 मानिनोपदेषस्य.