पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ॰१. सू.१.] ५४० सप्तदशं काण्डम् । २७ स्तमेष्यते गमिष्यते अर्धमस्तमिताय नमः । अस्तमिताय अस्तं संपूर्ण प्राप्ताय नमः । विराजे नम इत्याद्याः पूर्ववद् व्याख्येयाः । अस्तं गच्छ- तोपि सूर्यस्य उक्तलक्षणावस्थात्रयनिबन्धना विराडादिसंज्ञाः सन्ति । अ- स्तयदवस्थायां किंचिदूनकृत्स्नप्रकाशसंभवाद् विराड्भवति । अर्धमस्तमितस्या- पि अर्धोदितवत् स्वराटत्वम् अस्त्येव । अस्तमितस्यापि “अग्निं वावादि- "त्यः सायं प्रविशति1 । तस्माद् अग्निर्दूरान्नक्तं ददृशे । उभे हि तेजसी "संपद्येते" [तै बा.२.१.२.९] इति श्रुतेः · अग्न्यात्मनावस्थानात् स- म्राट्त्वं न ह्रीयते ॥ अथ वा सर्वदा मेरुं परिभ्रमतः सूर्यस्य स्वत उद- यास्तमयाभावाद् अस्मदादिदर्शनतिरोधानतारतम्याद् उदयास्तमयव्यपदेशः । आतः उदयास्तमययोस्त्रैविध्येन विराडादिमूर्तयः उपासनार्थे शास्त्रे निर्दि- ष्टाः ॥ मध्यन्दिनस्यापि उदितावस्थायाम् अन्तर्भावात् उक्तलिङ्गेन माण- षकस्य आयुरभिवृद्ध्यर्थं त्रिकालम आदित्योपस्थाने अस्यानुवाकस्य विनि- योग उक्तः॥ चतुर्थी ॥ उदगादयमादित्यो विश्वेन तपसा सह । सपत्नान् मह्यं रन्धयन मा चाहं द्विषते रधं तवेद् विष्णो बहुधा वीर्याणि। त्व नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमिन् ॥२४॥ उत् । अगात् । अयम् । आदित्यः । विश्वेन । तपसा । सह । सऽपत्नान् । मह्यम् । रन्धयन् । मा । च । अहम् । द्विषते । रधम्। तव । इत् । विष्णो इति । बहुऽधा । वीर्याणि । त्वम् । नः । पृणीहि । पशुडभिः। विश्वडरूपैः । सुऽधामि । मा। धेहि । परमे । विऽओमन् ॥ २४ ॥ अयं सर्वैः परिदृश्यमान आदित्यः उदगात् उदितवान् । कीदृशः सन् । विश्वेन कृत्स्नेन तपसा सकललोकसंतापकेन रश्मिनिचयेन सह । अप्र- तिबद्धम् उदयतः सूर्यस्य रश्मीनां राक्षसादिकृतन्यूनताक2रणाभावाद् विश्वे- 15 प्रषिशतीति. 29 °कारणाभावात्.