पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२६ अथर्वसंहिताभाष्ये नेति विशेषितम् ॥ उद्यन्तम् आदित्यम् उपतिष्ठमान आह । मह्यं मद- र्थं सपत्नान् शत्रून् रन्धयन् वशं प्रापयन् । उदयस्येष सपत्नान् मम वशं गमयतित्यर्थः । अहं च द्विषते अप्रियं कुर्वते द्वेष्ट्रे मा रधम् त- स्य वशो मा भूवम् । हे सूर्य उदयतस्तवानुग्रहाद् इति शेषः ॥ तवेद् विष्णो बहुधा इत्यादेर्मन्त्रशेषस्य व्याख्या पूर्ववद् द्रष्टव्या ॥ पञ्चमी॥ आदित्य नावमारुक्षः शतारित्रां स्वस्तये। . अहर्मात्यपीपरो रात्रि सत्राति पारय ॥ २५ ॥ आदित्य । नावम् । आ । अरुक्षः । शतऽअरित्राम् । वस्तये। अहः । मा। अति । अपीपरः। रात्रिम् । सत्रा । अति । पारय ॥२५॥ हे आदित्य त्वं नावम् रथलक्षणाम् आरुक्षः आरूढोसि आकाशा- ख्यस्य समुद्रस्य तरणाय । नौर्विशेष्यते । शतारित्राम् उदकाकर्षणसाध- नानि काष्ठानि अरित्राणीत्युच्यन्ते । अनेकार्नौगतिसाधनैरुपेताम् । अत्र ग्रहमण्डलाकर्षका वायव एव अरित्राणि । आरोहणमयोजनम् आह । स्वस्तये सर्वेषां प्राणिनां क्षेमाय । अथ स्वाभिमतम् आशास्ते । एवंरूपां नावम् आरूढस्वं मा माम अहरत्यपीपरः1 आत्यपारयः । आध्यात्मि- काधिदैविकाधिभौतिकलक्षणत्रिविधाशा2यपरिहारेण अह्व-: पारं प्रापितवान् असि । 3एवमेव रात्रिमपि सत्रा सहैव अह्ना सह मध्ये व्यवधानम् अ- कृषा माम् अति पारय रात्रेः पारं गमय । अहोरात्रयोः संधौ मर- णादिभयशङ्कया आह सत्रेति । अनेन ज्वरशिरोव्यद्यादिपरिहारेण आयु- रभिवृद्धिः प्रार्थिता भवति ॥ अथ वा एवं व्याख्येयम् । हे आदित्य नावम् त्यामेव नौरूपम् 4आरुक्षः आरुक्षम् आरोहम् आरूढश्च त्वया अह्न- पारं प्रापितवान् अस्मीति व्याख्येयम् । यथा1 नौः स्वस्मि्न्नधिष्ठितं 5यथा6भिमतदेशं गमयति एवं न6यसीति [वं] नौः । आरुहेर्लुङि 18 महरयस्यपीपरः, 28 "धिषिधाधुम्पाय.38 य एषमेष, 48 आरूक्षमापित- वानस्मि for आरूक्षः आरूक्षम् आरोहम् आरूढश्च त्वया अङ्क पारं प्रापितवान् अस्मि which is conjectural. 58'यथादित्य for यथा. 6S inserts मवि before यथाभि 78नय- मिति नौस for नयसीति [स्वं] नौः आ. The emendation is conjectural.