पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०१. सू.१.] ५४० सप्तदशं काण्डम् । २९ "शल इगुपधाद् अनिटः क्सः" इति क्सः। तस्मिन पक्षे श- तारिषाम् इति शतशब्दः अपरिमितवचनः । अपरिमितरश्मिरूपारिबोपे- ताम् इत्यर्थः । किमर्थम् आरोहणम् इति । स्वस्तये क्षेमाय सर्वोपद्रव- राहित्येन चिरकालजीवनाय । स्वस्तिशब्दार्थं विंशिनष्टि । अहर्मात्यपीपर इत्यादिना । अहनि रात्रौ च सुखेन अवस्थानमेव क्षेमः । अपी- पर इति । पारयतेर्लुंडि चङि रूपम्॥ षष्ठी ॥ सूर्य नावमारुक्षः शतारित्रां स्वस्तये। रात्रिं मात्यपीपरोहः सत्राति पारय ॥ २६ ॥ सूर्य । नाम । आ । अरुक्षः । शतऽअरित्राम् । स्वस्तये । • रात्रिम् । मा । अति । अपीपरः । अहः । सत्रा । अति । पारय॥२६॥ पूर्ववदेव ब्याख्या । अहरित्यस्य स्था1ने रात्रिम् इति रात्रिम इत्यस्य स्थाने अहरिति व्यत्ययमात्रं विशेषः । पूर्वमन्त्रे अहनि सूर्यानुग्रहेण सु- खेन जीवनं सिञ्चवत्कृत्य रात्रौ तद्विषये संदिहानो रात्रिं सत्राति पारये- ति प्रार्थितवान् । अस्मिंस्तु मन्त्रे रात्री सूर्यानुग्रहेण रात्रेः पारं प्राप्य प्रबुद्धः सन आह । हे सूर्य रात्रिं मा आयपीपरः 2रात्रिपारं प्रापित- वान् असि । एवमेव अहः अहरपि सत्रा रात्र्या सह तयोर्मध्ये व्यव- धानराहित्येन अति पारय । एवं मन्त्रद्वयेन दिनद्वयेपि सांतत्येन सुखेन जीवनं प्रार्थितं भवति ॥ एवं प्रतिदिनं त्रिषु कालेषु अनेनानुवाकेन सू- र्योपस्थानं कुर्वतो माणवकादेः शतसंवत्सरलक्षणं दीर्घम् आयुर्भवति । अ- तः एवमादिलिङ्गाद् आयुष्कामस्य कालत्रये सूर्योपस्थाने अस्यानुवाकस्य विनियोग उक्तः ॥ आदित्यसूर्ययोः पर्यायत्वं गमयितुम् उत्तरमन्त्रे सूर्यं नावम् इति निर्दिष्टम्3 ॥ . सप्तमी॥ प्रजापतेरावृतो ब्रह्मणा वर्मणाहं कश्यपस्य ज्योतिषा वर्चसा च । 1' स्थानेत्र for स्थाने. 25 गणिपार. 3 8' यनिर्दिष्टम् for निर्दिष्टम्.