पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये जरदष्टिः कृतवीयों विहायाः सहस्रायुः सुकृतश्चरेयम् ॥ २७ ॥ प्रजाऽपतेः । आऽवृतः । ब्रह्मणा । वर्मणा । अहम् । कश्यप॑स्य । ज्योतिषा। वर्चसा । च। जरतऽअष्टिः । कृतऽवीर्यः । विडहायाः । सहस्रऽआयुः । सुडकृतः । चरे- यम् ॥२७॥ प्रकाशवृष्ट्यादिना प्रजानां पालनात् प्रजापतिः आदित्यः । अथ वा संवत्सरकालनिर्वाहकत्वात् तस्य च प्रजापतिरूपत्वात् सूर्यः प्रजापतिः । त- स्य ब्रह्मणा परिवृढेन रूपेण। कीडशेन । वर्मणा । वर्म तनुत्रम् तद्रू- पेण सूर्यस्य ते1जोमयेन स्वरूपेण आवृतः वेष्टितः । अथ वा प्रजापतिः प्रजानां स्रष्टा हिरण्यगर्भः । “स त्रेधात्मानं व्यकुरुत । अiग्नि तृतीयं वायुं तृतीयम् आदित्यं तृतीयम्” इति [वृ. आ°१.२.३] श्रुत्या प्र. जापतेर्मूर्यन्तरभूत आदित्यः । स एव ब्रह्म “असावादित्यो ब्रह्म" इति [तै आ.२.२.२] श्रुतेः । तदेव ब्रह्म स्वोपासकस्म वर्मवद् आच्छाद- कत्वाद् वर्म इत्युच्यते । तेन आवृतो वेष्टितोहम् । अथ वा प्रजापतेः आदित्यस्य ब्रह्मणा मन्त्रमयेन वर्मणा । तत्स्वरूपनिरूपकत्वेन संबन्धाद् ब्रह्मणो मन्त्रस्य तदीयत्वम् । तेन परिवृतः । रक्षित इत्यर्थः । किं च कश्यपस्य । “कश्यपः पश्यको भवति यत् सर्व परिपश्यति" इति [. आ०१...] श्रुतेः कश्यपः सूर्यस्य मूर्त्यन्तरभूतः । तथा च श्रुत्यन्त- रम् । “आरोगो भ्राजः पटरः पतङ्गः । स्व2र्णरो ज्योतिषीमान विभा- "सः । ते अस्मै सर्वे दिवम् आतपन्ति । ते सर्वे कश्यपाज्योतिर्लभ- "न्ते" इति [तै आ°१.७.२] । “कश्यपोष्टमः । स महामेरुं न ज- हाति" इति च [तै आ०१.७.१] । तादृशस्य कश्यपस्य प्रकाशमयस्य ज्योतिषा । द्योतत इति ज्योतिः । तेन प्रकाशेन । । धुत दीप्तौ इत्यस्माद् द्युतेरिसिन् आदेश्च जः [उ०२.१०९] इति इसिन् आदेर्जभा- वश्च । तथा तस्य वर्चसा च ज्योतिरित्यस्य व्याख्यानम् वर्चसेति । वर्चः तमस आवर्जकं तेजः। वर्च दीप्तौ इति धातुः । च- 1 तेजोमयेन स्वरूपेण वर्मणा आवृतः for तेजोमयेन स्वरूपेण आवृतः, 2 स्वर्नरो.