पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३१ . [अ॰१. सू.१.] ५४० सप्तदशं काण्डम् । कारो ब्रह्मणा सह समुच्चयार्थः । अथ वा ज्योतिः स्वरूपप्रकाशः । व- र्चो रश्मिप्रकाशः । चशब्दो ज्योतिषा समुच्चयार्थः । ज्योतिषा आवृतो वर्चसा च 1आवृतोहम् इत्यर्थः । तथा च तैत्तिरीयकम् । “परीवृतो वरीवृतो ब्रह्मणा वर्मणाहं तेजसा कश्यपस्य" [तै आ०२. १९] इति ॥ अथ वा एवं व्याख्येयम् कश्यपाद् उदिताः सूर्याः “कश्यपाज्योतिर्ल- भन्ते" इत्यादिश्रुतेः । कश्यपः इतरेषां सूर्याणां मुख्यः । स एवात्र प्र- जापतिशब्देनोच्यते । तस्य ब्रह्मणा वर्मणा आवृतः इत्यस्य व्याख्यानं क- श्यपस्य ज्योतिषा वर्चसा चेति । अस्मिन् पक्षेपि चशब्दः अस्य ज्योतिषा सह समुच्चयार्थः ॥ बाह्यापायपरिहाराय वर्मणा आवरणम् आशास्स अथ भोगम् आशास्ते जरदष्टिरित्यादिना । जरदष्टिः । जरत इति । जीर्यतेर्भूतकालावच्छिन्नेर्थे अतृन । जीनः सन्नपि अष्टिः अशनं भोजनं यस्य स जरदष्ठिः । अनेन अरोगहढगात्रः सन बहुविधान भो- गांश्चिरकाल भुञ्जानो भवेयम इति प्रार्थना कृता भवति । तथा शत- वीर्यः अपरिमितैर्वीर्यैः शारीरैर्बलैर्युक्तः अनेकपुत्राद्युत्पादनसामर्थ्योपेतो वा। विहायाः विविधगमनः । सर्वत्र अप्रतिबद्धगतिरित्यर्थः । ओहाङ् गतौ । वहिहाधाञ्भ्यश्छन्दसि [उ०४. २२० ] इति असुन । तत्र णिदि- त्यनुवृत्तेर्णिङ्वद्भावाद् “आतो युक् 3चिंण्” इति युगागमः । त- था सहस्रायुः अपरिमितायुष्यः । सुकृतः सुष्ठु संस्कृतः सर्वसंपूर्णः सन् । अथ वा लौकिकं वैदिकं च यत कर्तव्यजातम् अस्ति तद् येन सुष्टुं कृतं स सुकृतः । कृतकृत्य इत्यर्थ- । तादृशः सन् । यद्वा सुकृतः सुकृतवान् सुकृतं धर्मस्तान् चरेयम् सर्वत्र पृथिव्यां गच्छेयम् । एतत् सर्वम् हे सूर्य तवानुग्रहात् संपादयामीति4 आशास्ते ॥ अष्टमी ॥ परीवृतो ब्रह्मणा वर्मणाहं कश्यपस्य ज्योतिषा वर्चसा च । मा मा मापन्निषतो दैव्या या मा मानुषीरवसृष्टा वधार्य ॥ २४ ॥ परिऽवृतः। ब्रह्मणा । वर्मणा। अहम् । कश्यपस्य। ज्योतिषा । वर्चसा । च। 1s om. भा'. 28 छन्दसीति for चिण् इति. 39 संपायामिति.