पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

.३२ अपर्वसंहिताभाषे मा। मा ।प्र। आपन । इषवः । दैव्याः। यौ। मा । मानुषीः । अवऽसृ- ष्टीः । वधाय ॥ २ ॥ परीवृत इत्यादि वर्चसा च इत्यनां पूर्ववद् व्याख्येयम् । यतोहं ब्र- ह्मणा वर्मणा ज्योतिषा वर्चसा च परीवृतः [अतो] दैव्याः देवप्रेरि- ताः। "देवाद् यञञो" [इति] प्राग्दीव्यतीयो यञ् प्रत्ययः । या इषवः बाणाः सन्ति ता मा मां [मा] प्रापन् । इषवो विशेष्यन्ते । - धाय मम हननाय अवसृष्टाः प्रेरिताः मा प्रापन् । मा प्राप्नुयुः । ए- वं मानुषीः मानुष्यः मनुष्यैर्वधाय प्रेषिता अपि इषवो मा मां पापन् । नवमी॥ ऋतेन गुप्त ऋतुभिश्च सर्वैर्भूतेन गुप्तो भव्येन चाहम्। मा मा प्रापत् पाप्मा मोत मृत्युरन्तर्दधेडहं सलिलेन वाचः ॥ २९ ॥ ऋतेन । गुप्तः । ऋतुऽभिः । च । सर्वैः । भूतेन । गुप्तः । भव्यैन । च । __ अहम। मा। मा।प्र। आपत् । पाप्मा । मा। उत । मृत्युः । अन्तः । दधे। अ- • हम् । सलिलेन । वाचः ॥ २९ ॥ अहम ऋतेन । ऋतम् यथार्थम् । सत्यम् इत्यर्थः । तेन गुप्तः रक्षितः । अथ वा ऋतं ब्रह्म आदित्याख्यम् तेन गुप्तः । तथा [सर्वैः] ऋतुभिः वसन्ताद्यैश्च गुप्तो रक्षितः । तथा भूतेन पूर्वकालम् उत्पन्नेन पदार्थजा- तेन गुप्तः । एवं भव्येन उत्पत्स्यमानेन च पदार्थजातेन गुप्तो रक्षितः । यत एवम् अतो हेतोः पाप्मा पापं नरकहेतुभूतं मा मां मा प्रापत् मा प्राप्नुयात् । उत अपि च मृत्युः मरणकर्ता देवोपि मा प्रापत् । अहं तु वाचो मन्त्रात्मिकायाः सलिलेन उदके1न रक्षाकामः अन्तर्दधे अन्तर्धा- नं करोमि । यथा लोके सलिलेनान्तर्हितः प्राणी न केनापि दृश्यते १Pदेव्याः ।. We with PICr. RPFICP omit the visarga in याः. We with Suyana. ३PPJCP ornit the visarga in सृष्टाः . We with Saynna.. 18 अहं after उदकेन ।