पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३३ [अ॰१. सू०१.] ५४० सप्तदशं काण्डम् । एवम् अहं मन्त्रमयेन सलिलेन पापादिबाधराहित्याय आत्मानं गोपया- मीत्यर्तः ॥ दशमी॥ . . अग्निर्मा गोप्ता परिं पातु विश्वत उद्यन्त्सूर्यॊ नुदतां मृत्युपाशान् । ___ व्युच्छन्तीरुषसः पर्वता ध्रुवाः सहस्रं प्राणा मय्या यतन्ताम् ॥३०॥ (३) अग्निः । मा। गोप्ता । परि । पातु। विश्वतः । उतऽयन् । सूर्यः। नुदताम् । __ मृत्युऽपाशान। । विऽउच्छन्तीः । उषसः । पर्वताः । ध्रुवाः । सहस्रम् । प्राणाः । मयि । आ। यतन्ताम् ॥ ३० ॥ (३) • अग्निः अङ्गनादिविशिष्टो देवो गोप्ता स्वाश्रितरक्षकः अथ वा मम भयेभ्यो गोप्ता सन् विश्वतः सर्वतः यतोयतो भयं भवति तेभ्यः सर्वेभ्योपि [मा] परि पातु परितो रक्षतु । तथा सूर्यो देवः उद्यन् उदयसमय एव मृत्युपाशान् मृत्योर्मारकस्य देवस्य ये पाशाः सर्पाग्निव्याघ्रकण्टकादि- रूपा वितताः सन्ति तान् सर्वान् नुदताम् अपसारयतु । यथा ते मां न स्पृशन्ति तथा करोतु । अत्र उद्यन्त्सूर्यो नुदताम् इत्यभिधानात् अ- ग्निर्मा गोप्ता परि पात्विति अग्निविषयपरिपालनप्रार्थना उदयात्पूर्वकाली- नरात्रिविषया वेदितव्या । तथा व्युच्छन्तीः व्युच्छन्त्यः । उछी विवासे । विवासो वर्जनम् । नैशस्य तमसो निवारयित्र्य उषसः उषोदेवता उदयापूर्वकालाभिमानिन्यः । दिवसानां वाहुल्यम् अ- पेक्ष्य उषस इति बहुवचननिर्देशः। तथा ध्रुवाः निश्चलाः स्थिराः पर्वताः पर्ववन्तः शैला हिमवदादयश्च । मृत्युपाशान् नुदन्ताम् इति यो- ज्यम् । माम् अनुगृहन्त्विति वा शेषोध्याहर्तव्यः । तेषाम अग्न्यादी- नाम् अनुग्रहात् सहस्रं प्राणाः । सहस्रम् इति अपरिमितनाम । प्रा- णस्य व्यापारभेदेन आनन्त्याद् अपरिमितत्वम् । ते मयि आयुष्कामे आ सर्वतो पतन्ताम् चेष्ठां कुर्वन्तु । अथ वा प्राणसंवादश्रुतिषु इन्द्रियाणा-