पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३४ अथर्वसंहिताभाष्ये मपि प्राणशब्दव्यवहार्या1वश्रवणात् "सप्त प्राणाः प्रभवन्ति" [तै..आ. १०:१०.१] “नव वै प्राणा नाभिर्दशमी" [तै. ब्रा.१.३.७.४] इत्यादौ [च] चक्षुरादीन्द्रियाणामपि प्राणशब्दव्यवहारात् तेषामपि स्थैर्यस्य मुख्यप्राणवदेव आशास्यत्वात् तव्द्यापारबाहुल्यमपि अपेक्ष्य सहस्र प्राणा मय्या यतन्ताम् इत्युक्तम् ॥ श्रीमद्राजाधिराजराजपरमेश्वरश्रीवीरहरिहरमहाराजसाम्राज्य- धुरंधरेण सायणाचार्येण विरचिते अथर्ववेदार्थप्रकाशे ___सप्तदशकाण्डं समाप्तम् ॥ 13 व्यवहारार्थत्व..