पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीगणाधिपतये नमः॥ यस्य निश्वसितं वेदा यो वेदेभ्योखिलं जगत् । निर्ममे तम् अहं वन्दे विद्यातीर्थमहेश्वरम् ॥ "ओ चित् सखायम्" इति अष्टादशकाण्डे चत्वारोनुवाकाः । तत् काण्डं सकलं पितृमेधे शव1दाहे अग्निमदानानन्तरं सप्तनवैकादशादिविषम- संख्याका ब्राह्मणाः 1पूर्वाभिमुखोपविष्टा जपेयुः ॥ __तत्रैव कर्मणि सारस्वतहोमानन्तरं सर्वे बान्धवा अनेन काण्डेन सक- लेन प्रेतम् उपतिष्ठेरन् । तथा च कौशिकेन सूत्रितम् । ["सर्वैरुपतिष्ठ- न्ति" इति । कौ०११.२] ॥ तत्र प्रथमेनुवाके षट् सूक्तानि । आदितश्चतुर्णां सूक्तानां काण्डप्रयुक्त एव विनियोगः2 । तेषु प्रथमेन सूक्तेन द्वितीये च सूक्ते “अधा कृणुष्व संविदं सुभद्राम्" इत्यन्तेन च वैवस्वतयोर्यमयम्योः संभोगार्थः संवादः प्रतिपादितः । तत्र यमी मिथुनार्थं 4स्वभ्रातरं यमं बहुमकारं प्रार्थितव- ती । स च स्वभगिनीगमनस्य जायन्तम् अनुचितत्वाद् नानाविधाभिर्यु- क्तिभिस्तां प्रत्याचख्यौ । तयोर्यमयम्योः 5सरण्य्वां विवस्वतः सकाशाद् यु- गल6भावेनोत्पत्तिः उपरिष्टात् "त्वष्टा दुहित्रे वहतुं कृणोति" [५३] इत्या- ख्यायिकया प्रपञ्चयिष्यते ॥ तत्र प्रथमसूक्ते प्रथमा । ओ चित सखायं सख्या ववृत्यां तिरः पुरू चिदर्णवं जगन्वान्। पितुर्नपतिमा दधीत वेधा अधि क्षमि प्रतरं दीध्यानः॥१॥ PCBR AKV जघन्वान् 1 देहे. 2 is corrupt here and reads पूर्वाभिजपामुखयुगाद्यात् for पूर्वाभिमुखोप- विष्टा जपेयुः।. The restoration is in the words of the Kesaths insert-तत्र प्रथ- मेनुवाके पद सूक्तानि here again. 4' स्वभर्तारं. 5 सरण्यां. 6 भावेननोत्पत्तिः.