पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये ओ इति । चित् । सखायम् । सख्या । ववृत्याम्। तिरः। पुरूं। चित् । अ- •र्णवम् । जगन्वान् ।। पितुः । नपातम् । आ । दुधीत । वेधाः । अधि । क्षमि । प्रडतरम् । दी- ध्यानः ॥ १॥ . इदं यम्या वचनम् । अहं सखायम् समानख्यानं यमम् । यैव विव- स्वत्पुत्रलक्षणा ख्यातिर्यमस्य सैव यम्या अपीति ख्याते: समानात्वात् स- स्त्रित्वं यमस्य । अथ वा गर्भवासप्रभृति युगलत्वेन अवस्थानात् सखि- त्वम् । तादृशं यमं सख्या सखित्वेन संभोगविषयैकमनस्कावलक्षणेन नि- मित्तेन ओ चित् । चिदिति पूरणः । आ उ इति निपातादयसमुदाया- त्मकम् ओ इत्येकं पदम् । आ ववृत्याम् आवर्तयामि । अस्मदनुकूलं 2करोमीत्यर्थः । अथ वा स्वमनीषितस्य अविहितरूपात्वात् लज्जया स्वयं तम् आवर्तयितुम् अशक्नुवाना ब्रूते सख्या आह्वानोपायभूतया आ - वृत्याम् इति । इदानीं संभोगोचितान्तर्हितप्रदेशमदर्शनपूर्वकं तत्संभोगम् आशास्ते तिरः पुरू चिद् इत्यादिना । तिरस्तिरोहितं पुरु विस्तीर्णम् अ- र्णवम् मेघं समुद्रं वा जगन्वान् गच्छन् । अत्र समुद्रशब्देन तन्मध्यव- ती द्वीपो वा लक्षयितव्यः । संभोगस्य अन्तर्हितदेशाभावेन यमः प्रति- षेत्स्यतीति बुद्ध्या एवम् आह । एवं लभाभिमतप्रदेशो यमः पितुर्विध- स्वतो नपातम् नमारं पौत्रं यम्याम् उत्पन्नः पुत्रस्तत्पितुर्विवस्वतो नप्ता भ- वति । अथ वा नपातम् न पातयितारं कुलस्य प्रवर्तकम् इत्यर्थः । तादृशं पुत्रं वेधाः विधाता पुत्रस्य उत्पादको यमो मयि आ दधीत ग- र्भे किम् आदध्यात् । गर्भम् आधा3तुं भ्रात्रैव भाव्यम इति को निर्ब- न्ध इत्याशङ्कय तस्मातिशयम् आह अधि क्षमीति । अधिः सप्त- म्यर्थानुवादी । क्षमायाम् इत्यर्थः । प्रतरम प्रकृष्टतरं दीध्यानः दीप्यमानः । न केवलं स्वकीय एव लोके तस्य प्रकाशः किं तु भूमा- - १P पुर ।, We with cr. 1 "विषयेरक° for "विषयक. 2 रामात्यर्थः for करोमीत्यर्थः आधतुं किं भ्रात्रैवाभाव्यम्.