पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०१. सू.१.] ५४१ अष्टादशं काण्डम् । चपि अतिशयितत्पकाश इत्यर्थः । सर्वप्राणिसंहाराधिकारावस्थितत्वाद् 1भू- लोके तस्य ख्यातिः सर्वप्राणिप्रसिद्धा2 । यद्वा दीध्यानः मयि गर्भम् आ- धातुम् उपाये ध्यायन्निति व्याख्येयम् । ववृत्याम् इति । वृतु व- र्तने । अस्मात् लिङ् । व्यात्पयेन परस्मैपदम् । “बहुलं छन्दसि" इति शषः स्युः । यद्वा अस्माद् यङ्लुगन्तात् लिङि"चर्करीतं पदम अदादि- वच्च द्रष्टव्यम्" इति परस्मैपदम् । जगन्वान् । गमेर्लिटः क्वसुः । “वि- भाषा गमहनविदविशाम्" इति इटो विकल्पितात्वाद् अत्र इडभावः । "म्वोश्च" इति मकारस्य नावम् ॥ द्वितीया ॥ न ते सखा सख्यं वष्टयेतत् सलक्ष्मा यद् विषुरूंपा भवाति । . महस्पुत्रासो असुरस्य वीरा दिवो धर्तार उर्विया परि ख्यन् ॥२॥ न । ते । सो । सख्यम् । वृष्टि । एतत् । सऽलक्ष्मा । यत् । विपुऽरूपा। भवाति । महः । पुत्रासः । असुरस्य । वीराः । दिवः । धर्तारः । उर्विया । परि। ख्यन् ॥२॥ . इदं यमस्य वाक्यम् । ते सखा 3त्वया सह समानोदरोत्पन्नत्वेन स- खिभूतो यमः एतत् उक्तलक्षणं भ्रातृ4स्वस्रोः संभोगात्मकं सख्यं न वष्टि न कामयते । सख्यं कुतो5 वा न कामयत इति तत्र कारणम् आह । यत यस्मात् सलक्ष्मा समानम् एकमेव लक्ष्म एकोदरवलक्षणं यस्याः सा तथोक्ता सहा सती विषुरूपा स्वसृरूपं परित्यज्य भार्यावलक्षणरू- पवती भवाति भवेत् अतो न वष्ठीति संबन्धः । यद्वा वाक्यद्वयम् । यत् यतः सलक्ष्मा अतो न सख्यं वष्टि । लोके विषुरूपैव भवाति भवति । भायेंति शेषः । यत एवम् अत इति पूर्वत्र संबन्धः । न केवलं मम १B विषरूपा. We with ARkcy De. C I. We with P. 1s inserts स before भूलोके. 23 सिद्धा for प्रसिद्धा. S has अ---सिक्षो. त्पन्न in place of ते सखा त्वया सह समानोदरो', the lacuna being long enough to con- tain about twenty letters. The restoration is conjectural. 48 भ्रातुःस्वस्रो. 8 कोवा. 68 सहरा. 78 भार्याभवतीति for भायेंति.