पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३८ अथर्वसंहिताभाष्ये । कामनाभावः किं तु देवा अपि निराकरिष्यन्तीत्याह महस्पुत्रास इत्या- दिना । महः महतो महत्वोपेतस्य असुरस्य प्रकृष्ठासोर्बलवतो रुद्रस्य पु- त्रासः पुत्रा मरुतः । ते विशेष्यन्ते1 । वीराः विविधम् ईरयन्ति प्रेरयन्ति शत्रून् इति वीराः विक्रमवन्तः । दिवः धुलोकस्य धर्तारः धारकाः पा- लकाः उर्विया2 उरवो महान्तो व्याप्ताः ते परि ख्यन परिवदन्ति । नि- राकरिष्यन्तीत्यर्थः । ख्या, प्रकथने । “अस्यतिवक्तिख्यातिभ्योङ्" इति श्लेः अङ् आदेशः ॥ __ तृतीया ॥ उशन्ति घा ते अमृतास एतदेकस्य चित् त्यजसं मर्त्यस्य । नि ते मनो मनसि धाय्यस्मे जन्युः पर्तिस्तन्वमा विविश्याः ॥ ३॥ उशन्ति । घ। ते । अमृतासः । एतत् । एकस्य । चित् । त्यजसम् । मर्त्य॑स्य । नि । ते । मनः । मनसि । धायि । अस्मे इति । जन्युः । पतिः । तन्वमि । आ। विविश्याः ॥ ३॥ इदं यमीवचनम् । हे यम रुद्रपुत्रा निराकरिष्यन्तीति मा वादीः । किं तु ते अमृतासः अमृता देवा मरुतः एतत् मया प्रार्थ्यमानं कर्म उशन्ति घ । घेति प्रसिद्धौ । कामयन्त एव । एतच्छब्दार्थम् आह । एकस्य असाधारणस्य मर्त्यस्य मनुष्यस्य पुत्रस्य त्यजसम् त्यागं गर्भान्नि- र्गमनम् उत्पत्तिम् उशन्तीति संबन्धः । यत एवम् अतस्ते 3मनः अस्मे अस्माकं मनसि नि धायि निधीयताम् । आवयोर्मनः एकमेवास्वित्यर्थः । अनन्तरं जन्युः4 अपत्यस्यं जनयिता त्वं पतिः । भूवेति शेषः । भ्रातृभावं परित्यज्य पतिः सन् तन्वम् तनूं मामकीनाम आ विविश्याः आविश प्रविश । यद्वा तव तनूं मयि आवेशय । संभोगं कुर्वित्यर्थः । वि. श प्रवेशने । लिङि “बहुलं छन्दसि" इति शपः शुः ॥ चतुर्थी ॥ _ न यत पुरा चकृमा कद्ध नूनमृतं वदन्तो अनृतं रपेम । 1 विलेभ्यते. 2 उर्व्या. 3 नमः 4 जन्युपरइत्यस्य.