पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०१. सू०१.] ५४१ . अष्टादशं काण्डम् । ' गन्धर्वो अप्स्वप्या च योषा सा नौ नाभिः परमं जामि तन्नौ ॥ ४॥ न । यत् । पुरा । चकृम । कत् । ह । नूनम् । ऋतम् । वदन्तः । अनृतम्। रपेम। गन्धर्वः । अप्ऽसु । अयो । च । योषो । सा। नौ । नाभिः । परमम् । - जामि । तत् । नौ ॥ ४ ॥ इदं यमस्य वाक्यम् । यत् यस्मात् कारणात् पुरा इतः पूर्वस्मिन का- ले न चकृम एतादृशं कर्म भगिनीसंभोगलक्षणं न चकृम न कृतवन्तः स्मः अतः कड्ध कस्मात् खलु कारणात् नूनं निश्चयम् । किमर्थं करि- ष्याम इति शेषः । तदेव प्रकारान्तरेणाह । ऋतम् सत्यं यथार्थं वदन्तः ब्रुवाणा वयम् अनृतम् असत्यम् अयथार्थ् कथं रपेम स्पष्टं ब्रूमः । “य- ड्धि मनसा ध्यायति तद् वाचा वदति तत् कर्मणा करोति" इति [तै. सं० ६.१.७.४] श्रुतेः असत्याभिधाने अङ्गीकृते पश्चात् तदाचरणमपि भवेदेवेति1 बुद्ध्या असत्यवदनमपि न कुर्म इति प्रतिज्ञाया अभिप्रायः । अथ वा संभोगो मास्तु तद्विषयं2 शृङ्गारकवचनं वा कर्तव्यम् इत्याशङ्कय तदपि निराक्रियते ऋतम् इत्यादिना ॥ उक्तनिषेधसिद्धये नि3षिध्यमान- स्वार्थस्य प्रतिकूलताम आह गन्धर्व इत्यादिना । गाम् उदकं धारयती- ति गन्धर्वः आदित्यः अप्सु । अन्तरिक्षनामैतत् । अनाश्रये स्थाने अस्य शब्दस्य व्यवहारः । 4अन्तरिक्षे । 5साक्षित्वेन वर्तत इति शेषः । तथा अ- प्या [अन्तरिक्षस्था सा प्रसिद्धा योर्वा] च आदित्यभार्या च अन्तरिक्षे वर्तते । सा भार्या नौ आवयोः नाभिः उत्पत्तिस्थानम् उभयोरपि तत एवोत्पत्तेः । तत मिघुनं परमं निरतिशयं [नौ आवयोः] जामि बन्धु- भूतम् । अत्र भार्याया नाभिभावेऽभिहिते तत्पतिर्विवस्वानपि उक्त एव अ- तस्तस्य पुनरभिधानं] न । यद्वा मानुरुदरादेव गर्भनिर्गमात् सा नौ ना- भिरिति तस्या एवाभिधानमः । इतरेषां बन्धुत्वस्य मातापितृसंबन्धसव्यपे- NCP जामि। 15 भवेदेवेविपबुमा for भदेवेति बुया. 28 तद्विषयंगारकवचनं. 35 निषेध्य . 48 अंतरिक्षसाक्षि. 58 omits this portion, which we have restoreal firom the Piyreda.s has a blank space for about eight letters between अप्या and च.