पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४० अथर्वसंहिताभाथे क्षत्वात् तयोर्बन्धुत्वस्य परमावम् । यतः पितरावभिन्नौ तौ च संनिहि- तौ अतस्त्वदभीष्टं न कार्यम् इति तात्पर्यम् ॥ . पञ्चमी॥ गर्भे नु नौ जनिता दंपती कर्देवस्त्वष्टा सविता विश्वरूपः । नकिरस्य प्र मिनन्ति व्रतानि वेद नावस्य पृथिवी उत द्यौः ॥ ५ ॥ गर्भे । नु । नौ । जनिता । दंपती इति दम्ऽपती । कः । देवः । त्विष्टा । __ सविता । विश्वरूपः। नकिः । अस्य । प्र । मिनन्ति । व्रतानि । वेदं । नौ । अस्य । पृथिवी। उत । द्यौः ॥५॥ यस्या वचनम् इदम् । एवम् एकयोनिजावेन दांपत्ये निराकृतेपि1 तत् पूर्वमेव सिद्धम् इत्याह । नौ आवां गर्भ नु गर्भ एव जनिता जनयि- ता अपत्यस्य स्रष्टा देवः दंपती दांपत्यवन्तौ कः अकः कृतवान् । क- रोतेर्लुङि “मन्त्रे घस" इत्यादिना च्लेर्लुक्। क इति आकाङ्क्षा- याम् आह । त्वष्टा.मातुरुदरस्थितस्य रेतसः अवयवसंनिवेशकर्ता विश्व- कर्मा देवः सविता प्रसविता सर्वस्य अनुज्ञाता विश्वरूपः विश्वं रूप्यते येन सः विश्वस्रष्टा विश्वात्मको वा । एवंमहानुभावो देवः । दंपती करिति पूर्वत्र संबन्धः । यस्माद् उक्तमहिमोपेतः अतः अस्य त्वष्टुः सवितुः व्रता- नि तत्कृतानि कर्माणि नकिः प्र मिनन्ति न हिंसन्ति न क्वेपि अति- क्रामन्ति । मीञ् हिंसायाम् । “प्वादीनां ह्रस्वः" इति ह्रस्वः । "श्र्नाभ्यस्तयोरातः” इति आकारलोपः । एतत् सर्वं स्वकार्यार्थ कल्पितम् इति आशङ्कायाम् आह वेद नौ इति । नौ आवयोः अ. स्य । कर्मणि षष्ठी । इदं कर्म गर्भ एव 2दंपतित्वलक्षणम् । यद्वा अस्य त्वष्टुर्देवस्य कर्म दंपति3करणलक्षणं कर्म । पृथिवी देवी उत अपि च 4द्यौर्देवता वेद उभे अपि जानीतः । तस्मात् एतद् यथार्थम् इत्यर्थः ॥ ___१PTI. We with F Cr. PCr वेदनौ ! P वेद । नौ ।. 18 oniits oपि in निराकृतेपि. 28 दंपत्यौ for दांपत्यवन्तौ. 38 दंपती. 48 ornits द्यौर् in द्यौर्देवता.