पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०१. सू०१.] ५४१ अष्टादशं काण्डम् । ४१ षष्ठी ॥ को अद्य युक्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्ह्रणायून्। . आसन्निषून ह्रत्स्वसो मयोभून् य एषां भृत्यामृणधत् स जीवात् ॥ ६ ॥ कः। अद्य । युक्ते । धुरि । गाः । ऋतस्य । शिमींऽवतः । भामिनः । दुःऽह्र- णायून। आसनऽईषून । ह्रासुऽअसः । मयःऽभूनं । यः । एषाम् । भृत्याम् । ऋण- धत । सः । जीवात् ॥ ६ ॥ इदं यमस्य वाक्यम् । यम्या असत्यमेवोक्तम् इत्यभिमेत्य सत्याभिधा- न1स्य दुर्लभताम् आह । अद्य इदानीम् अस्मिन् काले ऋतस्य सत्यस्य धुरि वहनव्यापारे 2गाः बलीवर्दस्थानीया वाचः स्वीयाः को युङ्क्ते को 3यो- जयति । न कोपीत्यर्थः । गोशब्दस्य लिङ्गजयसाधारणवाद् उत्तरत्र गोवि- शेषणानि सर्वाण्यपि पुंलिङ्गतया निर्दिष्टानि । शिमीवतः । 4[शमीति ] कर्मनाम । छान्दसम् इत्वम् । कर्मवतः कार्यपर्यवसायिनः । केवलायाः सत्योक्तेः सुलभत्वात् । भामिनः तेजस्विनः लोके सत्यवादा एव जयन्ति "सत्यमेव जयति5 नानृतम्" इत्यादिश्रुतेः [मु°३. १.६] । दुर्ह्रणा- यून । हृणीयतिः क्रोधकर्मा । क्रोधरहितान् इत्यर्थः । यद्वा लज्जारहितान् न हि सत्यवदनविषये क्रोधलज्जे स्तः । ह्रणीङ् लज्जायाम् । कण्ड्वादित्वाद् यक् । अस्माद् उण् प्रत्ययः । अतो लोपे सति वर्णव्यापत्त्या आकारः । मृगय्वादिर्वा द्रष्टव्यः। आसन्नि- 'षून् आसन् आस्ये इष्यमाणान् तस्मात् प्रेर्यमाणान् सर्वदा सत्यविषय- संकल्पवतोपि मुखतः सत्यं वक्तुम् अशक्यम् इत्यभिप्रायेण एवम् उ- च्यते । "पद्दन्" इत्यादिना आस्यशब्दस्य आसन् आदेशः । इव6 गतौ इत्यस्मात् ईषेः किच्च [उ०१.१३] इति [उप्रत्ययः । स च कित्] । ह्रत्स्वसः हृदयेषु हृदयेभ्यः अस्यमानान् श्रोतॄणां हृद- NCP शमी. PP शिमी. 18 भिषामले for "भिधानस्य. 28 पापा: for गाः, 8 यजति. 43 नि for शमीति. 5Sos and not जयते. 6Sos.