पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये येषु क्षिप्यमाणान् वा कण्ठाद् उपरि निर्गच्छन्तः शब्दाः1 संमता लोके हृदयपूर्वकास्तु दुर्लभा इत्यभिप्रायेण हृत्स्वस इत्युक्तम् । असे. र्व्यत्ययेन कर्मणि क्विप् “ तत्पुरुषे कृति बहुलम्" इति सप्तम्या अ- लुक् । मयोभून । मय इति सुखनाम । सुखस्य भावयितृन् स- त्याभिर्वाग्भिः 2सुखं सर्वेषां भवति असत्याभिस्तु असुखं भवतीति लोके सुप्रसिद्धम् एतत् । यः पुरुषो महान् एषाम् उक्तविशेषणयुक्तानां गवां भृत्याम् भृतिं भरणम् । “भृञोऽसंज्ञायाम्" इति क्यप् । तुगा- गमः। ऋणधत् वर्धयेत् । सत्यवचनम् अभिवृद्धं कुर्यात् । ऋधु वृद्धौ । अस्मात लेटि अडागमः । स जीवात् चिरकालं जीवति सत्याभिधानस्य माहात्म्यात् । जीवात् । लेटि आडागमः ॥ सप्तमी ॥ को अस्य वेद प्रथमस्याहः क ई ददर्श क इह प्र वोचत् ।। बृहन्मित्रस्य वरुणस्य धाम कदु ब्रव आहनो वीच्या नृन् ॥ ७॥ कः । अस्य । वेद । प्रथमस्य । अह्नः। कः । ईम् । ददर्श । कः । इह । प्र। वोचत । बृहत् । मित्रस्य । वरुणस्य । धाम । कत् । ऊं इति । ब्रवः । आहुनः। वी- च्या । नृन् ॥ ७॥ इदं यम्या वचनम् । [अस्य ] प्रथमस्य अह्नः । कर्मणि प- ष्ट्यौ । प्रथमम् अहः । आवयोः संगमदिवसम् इत्यर्थः । तत् को वेद जानाति । न कोपीत्यर्थः । किं च ईम् इदं कर्मं इदानीं वा को ददर्श पश्येत् । न कश्चित् पश्यतीत्यर्थः । तथा इह एतद्विषये कः पु- मान् 3दृष्टम् अर्थ् प्र वोचत् प्रब्रूयात् दृष्ठम् अर्थम् अन्यस्मै कथयेत् । सोपि नास्त्येव । ज्ञाता नैव किल । द्रष्टा कथयिता च दूरापास्तावि- त्यभिप्रायः । ज्ञानदर्शनमवचनानाम् अविषयं कालं संभावयति बृहदि- 18 has a lacuna for six letters in place of छन्तः शब्दाः 2S has a blank space for tventy or twenty-five letters for त्याभिर्वाग्मिः सुखं सर्वेषां भवति अससत्याभिस्तु असुखं भवतीति लोके. 3'इष्टम्.