पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ अ°१. सु°१.]५४१ अष्टादशं काण्डम् । त्यादिना । मित्रस्य देवस्य धाम स्थानम् । अहरित्यर्थः । तद् बृहत प्रभूतम् । तथा वरुणस्य तमोवारकस्य देवस्य धाम रात्र्याख्यम् तच्च वृहत् । अहोरात्रयोर्मध्ये कतमश्चन समयः संभोगाय संपत्स्यत इत्यभि प्रायः । तस्मात् हे आहनः । आङ्पूर्वात् 1हन्तेः असुन् . 8 । आ हन्तः अस्मदभिमतस्य अकरणेन क्लेशकारिन् कत् कथं वीच्याः2 विवि. धम् अच्चन्तः गच्छन्सः संचरन्तो नुन, नराः । ४ जसः स्थाने शस् ४ । ते सन्तीति कथं ब्रवः' ब्रूयाः ब्रवीषि ॥ अष्टमी ॥ यमस्यं मा यम्यं१ काम आगन्त्समाने योनौ सहशेय्याय जायेव पत्ये तन्वं रिरिच्यां वि 1चिद् वृहेवु रथ्येव चक्री ॥ 8 ॥ यमस्य। म। यम्यम्। कामः । आ । अगन् । समाने । योनौ । सहृऽ शेय्याय । जायाऽईव ।पत्ये । तन्वम् । रिरिच्याम् । वि । चित् । वृहेव । रथ्याऽइव । चक्रा ॥ ८ ॥ इदमपि यमीवचनम् । मा मां [यम्यम्] यमीं यमस्य कामः यम विषयोभिलाषः आगन् आगमत् । — यम्यम् इति । ‘‘वा छन्दसि ’’ इति पूर्वरूपत्वाभावे यण् आदेशः । “उदात्तस्वरितयोर्यणः स्वरितोनुदा- त्तस्य ’” इति यणः स्वरितत्वम् । 3आंगन्निति । गमेर्लुङि ‘मन्त्रे घस° * इति च्लेर्लुक् । ‘‘हल्ड्या°” इत्यादिना तिलोपे ‘‘मो नो धातोः” इति नावम् । कामं विशिनष्टि । समाने साधारणे योनौ एकस्मिन् शयने सहशेय्याय सहशयनार्हाय । शेयं शयनम् । ‘‘अचो यत्’ ’ इति भावे यत् । “ तद् अर्हति” इति यत् । यद्वा शय्याम् अ- र्हतीति शय्यः तस्मै । x “ तद् अर्हति” इति यत् । एकारोपजन- १ A Bc k R De ३ for १. We with v. २ c° सहऽराज्यय, ॥ reading liel tooltles arose firu th: omission of the mitri over शे° and I the श being mistaken fo• रा. ३ CR गृहे । 1 s’ हे: for हन्तेः ५ 8 वीच्यः 8 S’ आगआगन्निति.