पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४४ अथर्वसंहिताभाष्ये रछन्दसः तदर्थ तन्वम् तनू मामकीनां रिरिच्याम् पृथक् कु । र्याम् । तद1धीनां कुर्याम् इत्यर्थः । तत्र दृष्टान्तः जायेव पत्ये [इति]। यथा स्वकीयाय भर्त्रे जाया पत्नी स्वकीयां तनुं पत्य2धीनां करोति एवम् इत्यर्थः । तस्मिन् यथा विस्रम्भेण कामोपभोगः एवं करोमीत्यर्थः । अ नन्तरं वि वृहेव आवां संश्लेषं करवाव । इतरेतरयोः 3संष्लेषो विवर्हा । तत्रापि दृष्टान्तोभिधीयते । रथ्येव चक्रा रथ्यया रथयोग्यया पदव्या 4संह [चक्रा] चक्राणि यथा वृहन्ति तद्वत् । धू रथ्येति । ‘‘तद् वहति -र थयुगप्रासङ्गम्” इति यत् ४ । अथ वा रथ्येव रथाधाराणि चक्राणि अक्षेण सह विर्वहा कुर्वन्ति तद्वद् इति व्याख्येयम् ॥ नवमी । न तिष्ठन्ति न नि मिषन्त्येते देवानां स्पश इह ये चरन्ति । अन्येन मदाहनो याहि तूयं तेन वि वृह रथैव चक्रा ॥ ९ ॥ न । तिष्ठन्ति । न । नि। मिषन्ति । एते । देवानां । स्पशः। इह । ये। चरन्ति । अन्येनं। मत् । आहनः। याहि । तूयम् । तेन । वि । वृह । रथ्याऽइव । चक्रा ॥ ९ ॥ इह अस्मिन् लोके ये देवानां स्पशः चराः चरन्ति भ्रमन्ति तेषां म ध्ये एंके केचनापि न तिष्ठन्ति एकत्र स्थितिं न कुर्वन्ति । तथा न नि मिषन्ति । पक्ष्मसंकोचनं निमेषः । तदपि न कुर्वन्ति । न निद्रान्ती त्यर्थः । सर्वदैव5 स्पशा जागरूका वर्तन्त इत्यर्थः । स्पश इति । जसः सुः । क्विव्वा द्रष्टव्यः । यत एवम् अतः [हे आहनः] मत मनः अन्येन सह । ‘‘एकवचनस्य च” इति पञ्चम्या अत्. आदेशः 2 । तेन सह । रमस्वेति शेषः । तदर्थं तूयम् तूर्ण याहि १ तूयन्।. २ C2 बृह्। P बृह ।. We with P. 1 s' तदन्तं. 2 3 पत्न्यधानं. 3 Som. संश्लेषो. 4 8' साह5 5' श्वेष°. 6 S' Mhas a lacuna for six letters, after which it reads सः सुः ,