पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ° १. सू०१.]५४१ अष्टादशं काण्डम् । ४५ गच्छ । तेन सह वि वृद्ध संश्लेषं कुरु । रथ्येव चक्रेति दृष्टान्तवचनं व्याख्यातम् ॥

दशमी ।

रात्रीभिरस्मा अहभिर्दशस्येत् सूर्यस्य चक्षुर्मुहुरुन्मिमीयात् । दिवा पृथिव्या मिथुना सबंन्धू यमीर्यमस्य विवृहादजामि ॥ १०॥ ( १ ) रात्रीभिः। अस्मै । अहडभिः। दशस्येत् । सर्पस्य । चक्षुः । मुहुः। उत्। मिमीयात् । दिवा । पृथिव्या । मिथुना। सबंन्धू इति सऽबंन्धू। यमीः । यमस्य । विवृ हात्। अजामि ॥ १० ॥ (१) इदं यमीवचनम् । अस्मै यमाय रात्रीभिः तथा अहभिः अहोभिः । रात्रिषु अहःसु चेत्यर्थः । सर्वदा दशस्येत् । दशस्यतिर्दानक र्मा ऽ । प्रयच्छतु । यजमानो हविरिति शेषः । तथा सूर्यस्य देवस्य चक्षुः प्रकाशकं तेजः मुहुः अन्वहम् उन्मिमीयात् ऊर्ध्वं गच्छेत् । अस्मा अर्थायेति शेषः । सूर्योदयोपि अस्य भोगायास्त्वित्यभिप्रायः । ४ डु मिड् प्रक्षेपणे । व्यत्ययेन सुः दीर्घश्च x । किं च दिवा पृथिव्या च दिवा सह पृथिवी पृथिव्या सह द्यौश्च मिथुना मिथुने परस्परं मि थुने अविश्लिष्टे सबन्धू समानबन्धने यया एकमनस्के एवं यमीः य मी । ४ सोः सुः ४ । यमस्य अजामेिः अबन्धुः स्वसृरूपबन्धु- त्वरहिता सती वि वृहात् विवृहणं कुर्यात् इति परोक्षत्वेन आत्मनो व्य पदेशः। इति अष्टादशकाण्डे प्रथमेनुवाके प्रथमं सूक्तम् ॥ ‘‘ आ घा ता→ ” इति तीियं सूक्तम् ॥ तत्र प्रथमा ॥ आ घा ता गच्छानुत्तरा युगानि यत्र जामयः कृणवृन्नजामि १ CP बिभृयात् । clhangel to विवृहात् ।