पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४६ अथर्वसंहिताभाष्ये उप बर्बृहि वृषभाय बाहुमन्यमिच्छस्व सुभगे पतिं मत् ॥ ११ ॥ आ। घ। ता । गच्छन् । उत्ऽतंरा । युगानि । यत्र । जामयः । कृणवन् । अजामि। उप । बबृहि । वृषभाय । बाहुम् । अन्यम् । इच्छस्व । सुऽभगे । पतिम् । मत् ॥ ११ ॥ इदं यमवाक्यम् । घ इति पादपूरणः । ता तानि उतरा उत्तराणि युगानि अहोरात्रयोर्युगलानि । आगामिनो दिवसा इत्यर्थः । आ ग- च्छान् आगच्छेयुः । ननु दिनानि आगच्छन्त्येव किमिति आशास्यत इत्याशङ्कायाम् उत्तराणि दिवसानि विशिनष्टि । यत्र येषु आगामिषु दि वसेषु जामयः बन्धवः स्वसृभूताः अजामि अबन्धुत्वं भार्यात्वं कृणवन् कुर्युः । ॐ कृवि हिंसाकरणयोश्च । “धिन्विकृण्व्योर च” इति उ प्रत्ययः © । यस्माद् एवं तस्मात् हे यमि त्वं वृषभाय सेक्ने संभोगं कु- र्वते अन्यस्मै बाहुम् स्वीयं भुजम् उप बर्बृहि अतिवृद्धं कुरु । बृ हेर्यङलुगन्तात् लोटि ‘‘सेर्ह्यपिच्च” इति हि: । तस्य द्वित्वाद् गुणाभा वः । धातोरन्त्यलोपश्छान्दसः ॐ । तदर्थम् हे सुभगे कामिनि मत् मतैः । ४‘‘एकवचनस्य च ” इति पञ्चम्या अत् आदेशः ॐ । अ न्यं पतिम् इच्छस्व कामयस्व1 ॥ द्वितीया । किं भ्रातासद् यदनाथं भवाति किमु स्वसा यन्निर्ऋतिर्निगच्छात् । काममूता बह्वाऽतद् रपामि तन्वा मे तन्वं सं पिपृग्धि ॥ १२ ॥ किम् । भ्रात। असत् । यत् । अनाथम् । भवाति । किम् । ऊं इति । स्वसा । यत । निःऽऋतिः। निऽगच्छात् । कामंऽमूता। बहु । एतत् । रपामि । तन्वा । मे । तन्वम् । सम् । पि - पृग्धि ॥ १२ ॥ = = १ A B ३ fo" १. We with K De. २३ P ‘भूता ।. We with P Ct. 1 S’ इच्छ. S' कामय.

==

=

=

=