पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४७ [अ॰१. सू०१.] ५४१ अष्टादशं काण्डम् । [इदं यमीवचनम ।] स किं भ्राता असत् भ्राता भवेत् न भवत्येव । स भ्राता क ए1वं निन्द्यत इति तम् आह । यत् यदि भ्रातरि विद्य- माने स्वसा अनाथं नाथरहितम् अपेक्षितकामशून्यं भवाति भवेत् । स किं भ्रातासद् इति पूर्वत्रान्वयः । एवं भ्रा2तरं निन्दित्वा स्वसारं 3निन्द- ति । सा किमु स्वसा अ4सत् स्वसा भवेत् न भवत्येव । कैवं निन्द्य- त इति तां विशिनष्टि । यत् यदि स्वसृभूतायां विद्यमानायां भ्रातरं निर्ऋतिः दुःखं निगच्छात प्राप्नुयात् । सा किमु स्वसेति संबन्धः । यतोहं सनाथा अतः काममूता कामेन मूर्छिता बहुविधकामोपेता बहु अधिकम् एतत् इदानीम् एतेन कारणेन वा5 रपामि प्रलापं करो- मि। बह्वेतत् इत्यत्र संहितायां "स्वरितो वानुदाते पदादौ” इ- ति उदा6तयणः परस्यानुदात्तस्य स्वरितत्वम् । अतो मम प्रलापस्य सार्थकत्वाय मे मम तन्वा शरीरेण सह हे भ्रातः [तन्वम्] तनूं ता- वकं शरीरं सं पिपृग्धि संपर्चय । पृची संपर्के । व्यत्ययेन नुः । "बहुलं छन्दसि" इति अभ्यासस्य इत्त्वम् ४ ।। तृतीया ॥ न ते नाथं यम्यत्राहमस्मि न ते तनूं तन्वा सं पंपृच्याम् । अन्येन मत प्रमुर्दः कल्पयस्व न ते भ्राता सुभगे वष्ट्येतत् ॥ १३ ॥ न। ते । नाथम् । यमि । अत्रै । अहम् । अस्मि । न । ते । तनूम् । त- न्वा । सम् । पपृच्याम् ।। अन्येन । मत् । प्रऽमुदः । कल्पयस्व । न । ते । भ्राता । सुऽभगे। वष्टि । एतत् ॥ १३॥ इदं यमवाक्यम् । हे यमि अत्र अस्मिन् विषये ते तव अहं नाथम अभिमतार्यसंपादको भ्राता नास्मि न भवामि । किं च ते तव तन्वा . शरीरेण सह 7नूनम् निश्चयं [न] सं पपृच्याम संपर्क न करोमि । त- १CP यमि। 18 एव, 28 ए भ्रातरं. 38 निन्दिति. 18 om. lion असत् 10 निन्द्य. ता. 68 उदात्तेणः, 7SAyana's text in S S नूनं for on तनूम्.