पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४९ अथर्वसंहिताभाष्ये स्मात् [मत] मतः अन्येन पुरुषान्तरेण सह प्रमुदः प्रमोदान् संभोगम- नितान् कल्पयस्व साधय । ते तव भ्राता अयं जनः हे सुभगे संभोगा- र्थिनि एतत जायापत्यलक्षणं कर्म न वष्टि न कामयते ॥ चतुर्थी ॥ न वा उ ते तनं तन्वा संपपृच्यां पापमाहुर्यः स्वसारं निगच्छति । असंयदेतन्मनसो हृदो मे भ्राता स्वसुः शयने यच्छेयीये ॥१४॥ न। वै। ऊ इति । ते । तनूम् । तन्वा । सम् । पपृच्याम्। पापम् । आ- हुः । यः । स्वसारम् । निडगच्छात् । असमऽयत् । एतत् । मनसः । हृदः। मे। भ्राता । स्वसुः। शयने । यत् । शयीय ॥१४॥ इदमपि यमवाक्यम् । पूर्वमन्त्रोक्तमेव निषेधम् अत्यन्तपापतया पुन- र्द्रढयति । हे यमि ते [तव] तन्वा सह तनूम मदीयां न वै सं पट्ट- च्याम् नैव संपर्चयामि । संपर्काभावे हेतुम् आह । स्वसारम्1 भगिनीं निगच्छात भ्राता संभोगं कुर्यात् इति य एतत् पापं निषिद्धम् आहुः ब्रुवते धर्मरहस्यविदः । न केवलं पारलौकिकं पापमेव अपि तु दृष्टबा- धाप्यस्तीत्याह । एतत् वक्ष्यमाणं कर्म [मे मम] मनसः हृदः हृदयाश्च अथवा मनसा हृदयेन च सह असुंम् प्राणम् । अपहरेत् इति शेषः । एतच्छब्दार्थम् आह । भ्राता सन् स्वसुर्भगिन्याः शयने । शय्यते अत्रेति शयनम् । एकस्यां शय्यायां शयीय शयनं कुर्याम् इति यद् एतद् इति पूर्वत्रान्वयः ॥ पञ्चमी॥ बतो बतासि यम नैव ते मनो हृदयं चाविदाम । १ck R असंयदे. We with BY Dc. So ABK ROV DOOP. PPअसम् - यत् । CP असम्ऽयत् । changed to असम् यत् । meant to be असम् । यत् ।. Sayana: असुम् and संयत्, with which he supplies हरेत् &c. But असंयत् is a better reading as its opposite, संयत्, means meeting, including perhaps a meeting of the sexes, so that असंयत् should mean bad or improper sexual intercourse which suits well here. 1 The test in S, however, rends यः स्वसारं निगच्छात् and not यत्स्वसार निगच्छात्.