पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४९ [अ०१. सू०१.] ५४१ अष्टादशं काण्डम् । अन्या किल त्वां कक्ष्येवि युक्तं परि श्वजाते लिबुजेव वृक्षम् ॥ १५ ॥ बतः । बत । असि । यम । न । एव । ते। मनः। हृदयम् । च । अविदाम । अन्या। किल । त्वाम् । कक्ष्याऽइव । युक्तम् । परि। स्वजातै । लिबुजाऽइ- व। वृक्षम् ॥ १५॥ इदं 1यमीवाक्यम् । हे यम वं बतोसि बलाद् अतीतो भवसि दुर्ब- लो 2जातोसिं बात । खेदानुकम्पयोर्बतशब्दः अत्र खेदे वर्तते । यमस्य प- राधीनतया दौर्बल्यं यम्याः खेदाय संपद्यते । स्वाभिमतकार्यस्य तत्रासं- भवात खेदश्च [ । नैव ते मनः तव मनो मयि नास्त्येव । मयि उ- दासीनो भवसीत्यर्थः] । किं च तव हृदयम् अविदाम् ज्ञातवन्तः 3स्मः। बहुवचनं पूजार्थम् । हृदयस्य स्वाधीनताया अभावात् खेदेनेदम् उच्य- ते । हृदयपरिज्ञानप्रकारं प्रकटयति अन्या किलेति । अन्या मतः अप- रा कामिनी त्वां परि ष्वजातै परिवङ्गं कृतवती तस्मात् माम् अवम- न्यसे । अत एव च पराधीनत्वाद् दुर्बलश्च भवसीत्यर्थः । अत्र दृष्टा- न्तद्वव्यम् । 4कक्ष्येवेति एकः । अश्वस्य कक्षप्रदेशस्था रज्जुः कक्ष्या । सा यथा युक्तम् स्वसंबद्धम् अश्वं परिषजति श्लिष्टा भवति तद्वत् । दुर्दान्तो- प्यश्वः कक्ष्यया संवद्धो यथा स्वाच्छन्द्येन वर्तितुं न शक्नोति तद्वदिति । लिबुजेव वृक्षम् इति द्वितीयो दृष्टान्तः । लिबुजा व्रततिर्भवति [नि° ६.२०] इति निरुक्तम् । [सा यथा गाढं]5 वृक्षम् आदित आरभ्य अग्नम् आलिङ्गति तद्वत् वाम् अन्या सर्वात्मना स्वाधीनं चकार । ए- कदेशसंश्लेषस्य सर्वाङ्गसंश्लेषस्य च क्रमेण दृष्टान्तद्वयम् । अत्र ब- तो बलाद् अतीतो भवति दुर्बलो बतासि [नि० ६.२४] इत्यादि नि- रुक्तम् अनुसंधेयम्7 ॥ षष्ठी ॥ ___ अन्यमूषु यम्यन्य उ त्वां परि वजा लिबुजेव वृक्षम् । RABC KEV DC अन्य ऊषु. k अन्य उषु. We with P. २k inserts at after षु. 18 यम. 28 omits °सि. Somits the visargn in म. 48 कश्येवमिति. 58 देशयनू for "देशस्था. 6S has a lacuna here for eight or nine letters. 78 अनुसंबंधेयम्.