पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये तस्य वा त्वं मन इच्छा स वा तवाधा कृणुष्व संविदं सुभद्राम् ॥१६॥ अन्यम् । ऊं इति । सु । यमि । अन्यः । ऊं इति । वाम। परि । स्वजाते । __ लिबुजाऽइव । वृक्षम्। तस्य । वा। त्वम् । मनः । इच्छ। सः। वा । तव । अध। कृणुष्व । सम्ऽवि- दम् । सुभद्राम् ॥ १६॥ इदं यमवाक्यम् । हे यमि त्वम् अन्यमू षु । उशब्दः एवार्थे । अ- न्यमेव सुष्ठु परि ष्वजातै अन्य उ त्वां त्वामपि अन्यः परि श्वजातै । एवं परस्परं कुरु1तम् इत्यर्थः । तत्र दृष्टान्तः । लिबुजेव वृक्षम । ग- तम् एतत् । संश्लेषस्य उभयव्यापारजावाद् व्यतिहारेणाभिधानम् । परस्प- रसंश्लेषः समानमन2स्कत्वम् अन्तरेण न घटत इत्यभिप्रेत्य आह तस्य [वा] त्वम इति । हे यमि तस्य वा मनस्वम इच्छ । वाशब्दश्चार्थे । तस्य मनसे3 यद् रोचते तदेव त्वम् अनुसरेत्यभिमायः । स वा तव । मन इच्छत्तिति शेषः । तव मनस आनुकूल्यं भजताम् । अध अथ परस्स- रानुकूल्यानन्तरं सुभद्राम् अत्यन्तकल्याणां संविदम् 4संवितिं सुखानुभवं ते- न सह कृणुष्व कुरु ॥ सप्तमी ॥ त्रीणि च्छन्दांसि कवयो वि येतिरे पुरुरूपं दर्शतं विश्वचक्षणम्। आपो वाता ओषधयस्तान्येकस्मिन् भुवन आर्पितानि ॥ १७ ॥ त्रीणि। छन्दांसि। कवयः। वि। येतिरे। पुरुऽरूप1म् दर्शतम्। विश्वऽचक्षणम्। आपः। वाताः। ओषधयः। तानि । एकस्मिन् । भुवने। आर्पितानि ॥१७॥ कवयः क्रान्तप्रज्ञा ज्ञानिनः पूर्वे महर्षयः देवा वा त्रीणि च्छन्दांसि । अत्र छादनाच्छन्दांसीति व्युत्पत्त्या छन्दःशब्देन वक्ष्यमाणा अबादयस्त्रयो १P अन्यः ।. " अन्यम् ।. Cr अन्यः ।. २V D¢ पुरुरूपं दर्शतं विश्वचक्षणम्. B पुरुरूपं द- र्शतं विश्वचर्षणम्. C पुरुरूपं दर्शतं विश्वच॑क्षणम्, K पुरुरूपं दर्शतं विश्वच॑क्षणम्. We with R. ३C पुरुऽरूपम् ।। 18 कुर्व इत्यर्थः. 28 omits °मन. 3 मनसा. 48 hus षित्विं for संवित्तिं.