पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ॰१. सू०१.] ५४१ अष्टादशं काण्डम् । गृह्यन्ते । तानि वि येतिरे यानं कृतवन्तः । ज1गन्निर्वाहायेति शेषः । तेषु एकैकं विशिनष्टि । तेषु मध्ये आपः अप्तत्वं पुरुरूपम् नानारूपम् । अ- व्यिकारत्वात् सर्वेषां रूपाणाम् । दर्शतम् दर्शनीयं स्पृहणीयत्वेन प्रियद- र्शनम् विश्वचक्षणम् विश्वस्य द्र2ष्टु । एवं वाताः वायुतत्त्वमपि प्राणात्मना पुरुरूपं भवति दर्शनीयं च भवति । सूत्रात्मतया विश्वद्रष्ट्रपि । एवम् ओषध्यात्मकमपीति द्रष्टव्यम् । यद्वा समुदायाभिमायेण एकवचनम् । तद् अबादित्रयं पुरुरूपत्वादिधर्मकम् इत्यर्थः । त्रीणि च्छन्दांसीति उक्तम् । कानि तानि त्रीणीति तत्राह आपो वाता ओषधय इति । अबादीनां भुवनाच्छादकावं प्रसिद्धम् एव । तेषां भुवनैकप्रयोजकताम् आह तानी- ति । भवन्ति अत्र प्राणिनः अप्राणिनश्चेति भुवनं भूलोकः । तत्र त- न्निर्वाहार्थम् आर्पितानि स्थापितानि 3सृष्ट्यादौ ॥ अष्टमी ॥ वृषा वृष्णे दुदुहे दोहंसा दिवः पयासि यह्वो अदितेरदाभ्यः । विश्वं स वेद वरुणो यथा धिया स यज्ञियो यजति यज्ञियाँ ऋतून् ॥१४॥ वृषा । वृष्णे । दुदुहे। दोहंसा । दिवः । पयोसि। यह्वः । अदितेः । अदाभ्यः । विश्वम् । सः । वेद । वरुणः । यथा । धिया । सः। यज्ञियः । यजति । य- ज्ञियान् । ऋतून् ॥ १७ ॥ वृषा कामानाम् अपां च वर्षिता अग्निः वृष्णे आज्यपयआदेjdवर्षित्रे प्रयच्छते यजमानाय तद्भोगार्थं दोहसा दोहनसाधनेन यज्ञादिना दिवः सकाशात् पयांसि उदकानि दुदुहे वर्षितवान् । कीदृशो वृषा । यह्वः महन्नामैतत् । महान् । अथ द्यौर्विशेष्यते । अदितेः अखण्डनीयायाः । न हि द्यौः केनचित् खण्ड्यते । अदाभ्य इति वृष्णो विशेषणम् । कै- रपि रक्षःप्रभृतिभिः अहिंसितः । स तादृशोग्निः विश्वम् सर्व धिया प्र- ज्ञानेन वेद जानाति साक्षात्करोति । तत्र दृष्टान्तः । वरुणो देवो य- था धिया वेति तद्वत् । स च यज्ञियः यज्ञार्होग्निः । यज्ञर्वि- १PP वृष्ण्ये।. We with Cr and the Sanihita which is based on ABC KR. 18 जगंतिनिर्वा. 28 दृष्टारम्. 38 दृष्टयादौ. 48 वर्षित.