पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५२ अथर्वसंहिताभाष्ये ग्भ्याम्” इति घः। यज्ञियान् यज्ञानि यष्टव्यान् ऋतून अ- भिगन्तृन् यद्वा यज्ञियान् यज्ञियेषु ऋतुषु कालेषु तद्विहितकाले यष्ठव्यान् देवान् यजतीति व्याख्येयम् ॥ नवमी ॥ रपद् गन्धर्वीरप्या च योषणा नदस्य नादे परि पातु नो मनः। इष्टस्य मध्ये अदितिर्नि धातु नो भ्राता नो ज्येष्ठः प्रथमो विवोचति ॥१९॥ रपत् । गन्धर्वीः । अपा । च । योषणा । नदस्य । नादे । परिं । पातु । नः । मनः। इष्टस्य । मध्ये । अदितिः । नि । धातु । नः । भ्राता । नः । ज्येष्ठः । प्रथ- मः । वि । वोचति ॥ १९॥ गन्धर्वीः गन्धर्वस्य उदकधारकस्य भरतस्य आदित्यस्य स्वभूता भारती अप्या योषणा च अप्संबन्धिनी अप्स्थायिनी युवतिः सरस्वती च रपत् रपतु स्पष्ट1 वक्तु मद्वारा अग्निं स्तोतु । नदस्य नादे स्तोतुर्मम स्तोत्ररू- पे नादे कर्तव्ये ध्वनौ नो मनः मम मनः परि पातु] परितो रक्षतु । भारती सरस्वती चेति शेषः । अनन्तरम् इष्टस्य फलस्य यागस्य वा मध्ये नः अस्मान् अदितिः देवमाता देवी नि धातु स्थापयतु इष्टं यो- जयतु । भ्राता भरणकर्ता भ्रातृवत हितकारी ज्येष्ठः गुणैः प्रशस्यः प्र- थमोग्निः। प्रथम इति मुख्यनाम । प्रतमो भवति [नि०२.२२] इति निरुक्तम् । वि वोचति विवक्तु साधु यष्टा [अयम् इति] मयि ब्रवी̈त्वित्यर्थः । वि वोचति । "लिड्याशिष्यङ्" इति वि- हितोऽङ् प्रत्ययो व्यत्ययेनात्र न प्राप्तः2 । “धच उम्" इति अङ्प्रत्यय- निबन्धन उमागमः ॥ दशमी ॥ सो चिन्नु भद्रा क्षुमती यशस्वत्युषा उवास मनवे स्वर्विती। . 18 विवक्तुं, 2 So S. Should we read लिङयाशिष्यङ् इति अङ् प्रत्ययः । इतश्चेति विहित इकारलोपो व्यत्ययेनात्र न प्राप्तः ?